Book Title: Jambuswami Charitam
Author(s): Shubhankarvijay
Publisher: Ramanlal Chhotalal Parikh

View full book text
Previous | Next

Page 43
________________ Shn Mahavir Jain Aradhana Kendra श्री जम्बूस्वामिचरित्रम् | ॥ ४० ॥ www.kobatirth.org 46 क्षेत्रपालो नग्नः सन् क्षेत्रपाल इवाभवत् । ते चौराः शङ्खधमं तत्रैव मुक्त्वा ययुः । प्रातर्गोपास्तं पप्रच्छुः सोऽपीदम चकथत् -" घमेद्धमेत्, परन्तु नातिधमेत्, यतोऽतिध्मातेन यद् घ्मातोपार्जितधनं तन्मया हारितम् । हे नाथ ! तस्मात् तवाप्यतिशयः कर्तुं नोचितः । अस्मानपि पाषाणकठोरस्स्त्वमवज्ञातुं नार्हसि । ततो जम्बूरम्बुशीतलबाचोवाचअहं यथा शैलेयवानरो बन्धनानभिज्ञस्तथा नास्मि । तथाहि Acharya Shri Kailassagarsuri Gyanmandir शैलेयवानरकथा । arraseध्य विन्ध्यो नाम गिरिरस्ति । तत्रैको महावानरयूथपतिर्बभूव विन्ध्याद्रिवनगहरे कुमार इव स यूथसम्भवान् सर्वान् वानरान् निराकरोत् । स एवैको महाबलो वानरीभिः सार्धं बहुवनिता राज्यसाम्राज्यखलीलां वितन्वन् रेमे । एकदा कश्चिदू युवा वानरो मदोद्धृतो वानरीरागाद् वृषस्यन् तं वानरमनाहृत्य कस्याविद्वानर्या भयलदन्ताङ्कुरं पकारुणविकसद्दाडिमभं मुखं चुचुम्ब । कस्याचिन्मुखं केतकीपुष्पपरागेणाऽऽच्छादयामास । कस्याश्चिद् गले गुआहारं स्वयं कृत्वा पर्यथापयत् । कस्मैचिद् विश्वदलैर्वीटिकां कारं कारं समर्पयामास । कामपि निर्भरमालिङ्गय प्रालम्भहिण्डोलकमध्यास्त । एवं बहुबलगर्वादप्रेतनं यूथपं न जानानो निःशङ्कं वानरीभिररंस्त । तदा कयाsपि नखैः कण्डूय्यमानलाङ्गूल, कयाऽपि प्रसृज्यमान सर्वाङ्गरोमराजिः, कयाऽपि कदलीतालवृन्तेन वीज्यमानः, कयाऽपि कमलनालैः क्रियमाणावतंसक उच्चैः शिखरस्थः स जरन् यूथपतिर्द्राग् वानरयुवानं तं दृष्ट्रा कोपादधावत् । लाङ्गूलं नर्तयन् स वानरयूथपतिस्तं वानरयुवानं रोषेण पाषाणखण्डेन जघान । ततः स वानरेन्द्रयुवाऽपि लोष्टाहतः सिंह इव क्रुद्धो घुरघुरारावं कुर्वस्तं प्रत्यभावत् ।मिथः क्रोडीकृतसर्वाङ्गौ तौ दुईदावपि सुचिरान्मिलितौ सुहृदाविव भूतौ दन्ताभैखट टेति अङ्गुलीभिश्चटचटेति परस्परं युध्यमानौ तौ For Private And Personal Use Only शैलेय वानर दृष्टान्तः । ॥ ४० ॥

Loading...

Page Navigation
1 ... 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65