Book Title: Jambuswami Charitam
Author(s): Shubhankarvijay
Publisher: Ramanlal Chhotalal Parikh

View full book text
Previous | Next

Page 46
________________ Shri Mahavir Jain Aradhana Kendra भीजम्बू स्वामि चरित्रम् । ॥ ४३ ॥ 龋 www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir यथा मे सविशेषा सम्पद् भविष्यति । अथ धनप्राप्त सिद्धिस्थविरा बुद्धिदर्शितप्रकारेणाहर्निशं यक्षमाराधयितुमारेमे । सा सिद्धिविविधभक्तिभिः खटिकाधातुभिर्येक्षस्य मन्दिरं भूषयामास तथा सोपानश्रेणि चालञ्चकार । कर्तव्यभक्तिप्रकारांस्तन्निभान् गणयन्तीव सा स्वस्तिकरेखाभिर्यक्षाङ्गणं भूषयामास । सा स्वयं जलमानीय प्रत्यहं स्वीकृतोपासनानियमा यक्षं स्नपयामास सा स्वयमाइतैर्विश्वदलकरवीरतुलसीकुब्जकादिभिर्यक्षं त्रिसन्ध्यं पूजयाञ्चकार सा यक्षमन्दिरे यक्षाभियोग्यव्यन्तरीवैकभक्तोपयासादितत्पराऽहर्निशं न्यवसत् । तत एवमाराधितस्तुष्टो यक्ष उवाच - " हे महाभागे ! अहं तुष्टोऽस्मि । यदिच्छसि तत्प्रार्थयस्व " । अथ सा सिद्धिः पूर्णसम्पदं यक्षं प्रार्थयाञ्चकार " हे यक्ष ! त्वया मत्सख्यै बुद्ध्ये हृतं तद्विगुणं मे देहि " । ततो भोलाख्यो यक्ष एवमस्त्विस्युक्त्वाऽन्तर्दधौ । ततः सिद्धिरपि क्रमेण बुद्धितोऽधिकसम्पतिभाक् समजनि । बुद्धिः सिद्धिं द्विगुणसम्पतिला मेनाधिकार्द्ध दृष्ट्वा पुनरपि यक्षमाराधयत् । यक्षोऽपि तुष्टस्तस्यै तद्विगुणं धनं ददौ । ततः सिद्धिस्तस्याः स्पर्धया पुनरपि यक्षमाराधयत् । ततस्तुष्टे यक्षे दुष्टात्मा सिद्धिश्चिन्तयामास" अहं प्रसन्नाद्यक्षाद् यत्किञ्चित् प्रार्थयिष्ये तद्विगुणं द्रव्यं बुद्धिर्यक्षमाराध्य प्रार्थयिष्यति । तस्मादहं तथाचे यद् द्विगुणमर्थितं बुद्धेरपकाराय जायेत तदा मे बुद्धिः साथीयसी स्यात् । इति चिन्तयित्वा मे नेत्रमेकं काणीकुरु इत्ययाचत । यक्षेणैवमस्त्वित्युक्ते सद्यः सा काणा बभूव । ततो बुद्धिः पुनर्मम सख्यै यक्षः किमप्यधिकं ददाविति तद्विगुणकाङ्क्षिणी सती यक्षमाराधयामास । ततस्तुष्टाद् यक्षाद् बुद्धिरप्येतादृशं प्रार्थयामास " हे यक्ष ! सिद्ध्यै यद् दक्षं तद्विगुणं मे देहि । " यक्ष एवमस्थिति कथयित्वा तिरोदधे । सा बुद्धिः सद्योऽन्धाऽभवत् । यतो देवतायचो मिथ्या न भवति एवं बुद्धिस्थविरा पूर्वमाप्तया सम्पदाऽतृप्ताऽतिलुब्धा स्वेनैव स्वं विनाशयामास । एवं मानुषश्रियं प्राप्यातिश्रियमिच्छंस्त्वमप्यन्ध स्थविरावद् भविष्यसि ॥ For Private And Personal Use Only स्थविरादृष्टान्तः । ॥ ४३ ॥

Loading...

Page Navigation
1 ... 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65