Book Title: Jambuswami Charitam
Author(s): Shubhankarvijay
Publisher: Ramanlal Chhotalal Parikh
View full book text
________________
Shn Mahavir Jain Aradhana Kendra
श्रीजम्बूस्वामि
चरित्रम् |
॥ ४७ ॥
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
जगामेति जिनदासस्यातीय प्रियोऽभूत् । तमश्वमित्र मां कोऽप्युत्पथं नेतुं न शक्नोति । तस्मात् परलोकसुखदं पन्थानं न त्यक्ष्यामि । अथ कनकक्षीः प्रेमबन्धुरं सहासमुवाच " हे स्वामिन् ! ग्रामकूटसुत इव त्वं जडो मा भव । " तथाहि
ग्रामकूटसुतकथा ।
एकस्मिन् ग्राम एको ग्रामकूटसुतोऽभूत्। स मृतपितृको ऽत्यन्तदुःखितमातृको बभूव । रुदती माता तमुवाच " हे पुत्र ! एवं कापुरुषशिरोमणिरसि। तब परकथां विनाऽन्यत् कर्म नास्ति । तब पिता व्यवसायी व्यवसायेनाजीवत् । आरब्धं व्यवसायं सदा निरवाइयत् । त्वं तु युवाऽपि व्यवसायं कदापि नारभसे । आरब्धव्यवसायस्य निर्वाह कथैव का है। तव समानवयसः स्वेन कर्मणा जीवन्ति । त्वं पद्मशण्ड इव भ्राम्यन् निष्कर्मा सन् न लज्जते । मदारिद्र्येणेदमुदरं बिभर्षि । त्वमुदरे भृते कोशो भृत इति मन्यसे । " ततः पुत्र उवाच" हे मातः ! अतः परमहमनर्गलो न भविष्यामि, धनोपार्जनोद्यमं करिष्यामि । हे मातर्यथा मे पितोत्साही प्रारब्धं व्यवसायं धनोपार्जनाय निरवाहयत् तथाऽहमपि करिष्यामि ।
एकदा ग्रामसभायामुपविष्टस्य पश्यतस्तस्य कस्यचित् कुम्भकारस्य गर्दभः पादबन्धनं त्रोटयत्वाऽनश्यत् ! पछायमानं तं गर्दर्भ कुम्भकारोऽप्यन्वधावत् । खरं घर्तुमशक्तः स इदमूर्ध्वबाहुरुवाच - " भो भो ग्रामसभोपविष्टाः सर्वेऽपि आमबालकाः ! युष्माकं मध्ये कोऽपि समर्थोऽस्ति यो मम खरं धृत्वा मेऽर्पयेत् ततो ग्रामकूटतस्तस्मादर्थलाभं विचिन्तयन् धावित्वा तं खरं पुच्छे वृन्ते फलानीवाग्रहीत् । स लोकवर्यमाणोऽपि यावचं खरं नामुचत् तावत्तत्पादाघातेन भग्नदन्तः सन् भूतलेऽपतत्। तस्मात् हे नाथ ! स्वमप्येवमसद्द्मह मनुत्सृजन् यत्फलं प्राप्स्यसि तन्मया न किमपि ज्ञायते । अथ जम्बूनामा हनुवाच - "स्वकार्यमहिल: सोल्लक इव नाहमस्मि तथाहि
For Private And Personal Use Only
ग्रामकूटसुत दृष्टान्तः ।
॥ ४७ ॥

Page Navigation
1 ... 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65