Book Title: Jambuswami Charitam
Author(s): Shubhankarvijay
Publisher: Ramanlal Chhotalal Parikh
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
श्रीजम्बूस्वामिचरित्रम् |
॥ ३३ ॥
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
आधोरणस्तं हस्तिनं पर्वतशिखरे त्रिपद्यत्क्षितैकपादं स्थिरं धारयामास तदा जनो हाहाकुर्वन्नुवाच " राजशिरोमणे ! आज्ञाकारिणः पशोर्गजेन्द्रस्य मारणं नोचितं भवति "। अनाकर्णितकं कृत्वा पातयेत्येवोपदिशति राज्ञि हस्तिपको गजं द्वाभ्यां पद्धधामधारयत् । पुनर्लोके “ हाहाऽयं गजो न हन्तव्य " इति वदति सति राजा तूष्णीकोऽभूत् । हस्तिपकश्च तं गजमेकपादस्थं दधौ । लोको हस्तिरत्नस्य मारणं द्रष्टुमसमर्थो हाहाकुर्वन्नुर्ध्वस्थितैर्भुजै राजानमुवाच - " हे क्षितिवल्लभ ! अयमन्यगजासवः सुशिक्षितो दक्षिणावर्तवद् दुष्प्रापो वालनीयोsस्ति, " राजं ! स्एवं प्रभुरसि तस्मादपराधिनोर्यदिच्छति तत् करोषि परम्स्वविवेकजमयशस्तव निरङ्कुशं स्यादिति विद्धि । हे स्वामिं ! स्वया स्वयं कार्याकार्ये विचायें, तत् स्वयं विचार्य हस्तिरत्नं रक्ष, नः प्रसीद । राजाऽप्युवाच - " अस्त्वेवम् यूयं सर्वे मद्वचसेमं हस्तिपकं हस्तिरक्षणाय बदत " । ततो लोका ऊचुः " हे आधोरणशिरोमणे | इयतीं भूमिकां प्रापितं गजं निवर्तयितुं त्वं शक्नोषि ? स उवाच-“ यदि राजाऽऽवयोरभयं ददाति तदा सुखेनोचारयामि " । तदा राजलोकैर्विज्ञप्तः -" हे राजन् ! अनयोरमयं देहि । ततो हस्तिपकः शनैस्तं गजमुदतारयत् । ततो गजस्कन्धाद् राज्ञी हस्तिपकावुत्तीर्णौ । मद्देशस्त्यज्यतामित्युक्तौ तो पलायाञ्चक्राते ।
तो नश्यन्तौ सायंकाल एकं ग्रामं जग्मतुः । तत्रैकस्मिन्छून्ये देवालये सदैव सुषुपतुः । एकचौरो ग्रामादर्धरात्रे तदारक्षकेभ्यो नंष्ट्रा तद्देवकुले प्राविशत् । तद्देवकुलं मामारक्षकाः प्रातर्वयं चौरं ग्रहीष्याम इति वदन्तः पर्यवेष्टयन् । चौरोऽप्यन्धवत् कराभ्यां देवकुलं शोधयन् यत्र तौ शयानौ वभूवतुस्तत्र शनैर्ययौ । तस्करेण स्पृश्यमानोऽपि न हस्तिपकोजागरीत्, यतः श्रान्तस्य निद्रा वज्रलेपवत् सज्यते । परं चेषत्करस्पृष्टाऽपि राज्ञी शीघ्रमजागरीत् । तस्मिंश्चरे स्पर्शमात्रादनुरागिणी भूता सा स्वं कोऽसीत्युवाच च शनैः । सोऽपि तस्करः शनैरित्युवाच " अहं चौरोऽस्मि " अहं धावत्सु ग्रामरक्षकेषु प्राणत्राणार्थमत्र प्राविशम् । सानुरागासतीब्रुवा सा चौरमब्रवीत्
For Private And Personal Use Only
Iv
नूपुरपण्डिताया दृष्टान्तः ।
॥ ३३ ॥

Page Navigation
1 ... 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65