Book Title: Jambuswami Charitam
Author(s): Shubhankarvijay
Publisher: Ramanlal Chhotalal Parikh
View full book text
________________
san Manavi din Aranana Kendre
www.kobatirtm.org
Acharya.seKailassagarsurnGyanmandir
श्रीजम्बूस्वामिचरित्रम् ।
महेश्वरदच
दृष्टान्त।
॥२०॥
| हि चौरतोऽप्यधिक: कोपो जारे जायते"। कृतान्तस्य बन्धुना इव कुपितेन महेश्वरेणार्थमारितः स जारः कथमपि पलायाश्चके । किञ्चिद् गत्वा पतितः स गाविलाजारः कण्ठगतप्राणेब्बिदं व्यचारयत्-" घिमां यन्मरणप्रदमनार्यकृत्यमइमकार्षम् , तद्वान्छितदं तीर्थमिव मम मरणायाभूद् इदं तद्युक्तमेव ।" एवं चिन्तयन् स जारो विषय गाभिलाकुक्षी स्वाहितवीर्ये शीघ्रमेव पुत्रतां माप । ततः पूर्णसमये गाझिला पुत्रमजीजनत् ।
अथ गामिलापतिर्महेश्वरस्तं जारजातमपि पुत्रं स्वोत्पन्नमिव मन्यमानः प्रेम्णा लालयांबभूव । ततो महेश्वरो जनिततनयाया गाङ्गिलाया आगतमपि व्यभिचारिणीदोषं पुत्रस्नेहाद् व्यस्मरत् । पुत्रीभूतस्य तस्य जारजीवस्य धात्रीकर्माणि कुर्वाणः प्रमोदभाग् महेश्वरो न ललने । वर्षमानं कूर्चकेशाऽऽकर्षकं तं पुत्रं कृपणोऽर्थमिव स हृदयाने सदा दधार च ।
एकदा महेश्वरः स्वपितृमरणदिने प्राक्षे तं पितृजीवं महिषं तन्मांसेच्छयाऽकैषीत् । ततः पितृमरणतिथिमहेऽतिहर्षरोमाञ्चितो महेश्वरः स्वयं तं महिषमवधीत् । ततस्तन्महिषमांस भुनानो प्रमोदभाग महेश्वरः क्रोडस्थाय तस्मै पुत्रायापि तद् ददी। महेश्वरस्य शुनीभूता | माता च तन्मांसं लिप्सुस्तत्राऽऽगमत् । सोऽपि मांसखण्डयुतास्थीनि शुनीकृते चिक्षेप । सा शुनी पवनान्दोलितधूमशिखाग्रवन्नृत्यता पुच्छेन स्वपतिजीवकीकसानि जघास । एवं पितजाअलं भक्षतः समुद्रपुत्रस्य गृह एको मुनिर्मासक्षपण भिक्षार्थी तत्राऽऽजगाम । स मुनिमहेश्वरदत्तस्य ताशं सर्व वृवं ज्ञानप्रकर्षण व्यजानात् । तज्ज्ञात्वाऽसौ मुनिरचिन्तयत्-" अहो तपस्विनोऽस्याज्ञान पिक, यत् पितुमासं भुले, कोडे च शत्रु बहति । इयं शुनी स्वपतेरस्थियुतानि मांसानि प्रमुदितमनाः खादति । "अहो संसार ईदृशोऽस्ति ।" एवं सम्यग् ज्ञारखा मुनिमहेश्वरगृहानिर्जगाम । तदा महेश्वरोऽपि धावित्वा तं वन्दित्वा च प्रोवाच-“हे भगवन् ! स्वमगृहीतभिक्षो महात् ।
का
॥
२
For Private And Personal use only

Page Navigation
1 ... 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65