Book Title: Jambuswami Charitam
Author(s): Shubhankarvijay
Publisher: Ramanlal Chhotalal Parikh

View full book text
Previous | Next

Page 31
________________ san Manavi din Aranana Kendre www.kobatirtm.org Acharya Sur Kallassagerar Gyanmandir श्रीजम्बू स्वामिचरित्रम्। नू पुर. पण्डिताया दृष्टान्तः । ॥२८॥ सौधकुख्य इव मषीमलिनकरं ददौ । तवाशयमजानाना सा विलक्षा तपस्विनी दुःशीलपुरुषं गत्वा परुपाक्षरैरुवाच-“हे दुःशीलपुरुष ! स्वं मां मिथ्यवमवादीयन्मय्यनुरागिणी साऽस्ति ।" सा हि विशालसतीगर्वा मां शुनीमिवातर्जयत् । हे मुग्ध! मम दूत्यं तस्यां कुलाङ्गनायां व्यर्थमभूत, यतः सुभित्तो चित्ररचना चतुरस्य शोभते । गृहकर्मन्यप्रया कुपितया तया मषीमलिनकरेण चपेटया पृष्ठेऽइमाहताऽस्मि" रत्युक्त्वा सा तापसी दुर्गिलादत्तमधीमलिनकराङ्कितं स्वपृष्ठं धूर्तवरायादर्शयत् । तदा स एवं व्यचारयत्-"कृष्णपञ्चम्यां ध्रुवं सा भ्यस्तः, अहो तस्याश्चातुरी काऽप्यपूर्वा या सडेतबासरं सूचयति । हे मनो! नया सा सतस्थानं तु केनापि हेतुना न सूचयानके। तदद्यापि तत्सबमे विध्नो वर्तते । पुनश्च स तापसीमुवाच" हे तापसि 1 तस्या आशयं त्वं न जानासि । सा मय्यनुरागिण्येवातो भूयोऽपि तां प्रार्थय । हे मातः ! मत्प्रयोजने सर्वथाऽनुत्साह मा कृथाः । भूयोऽपि त्वं गच्छ । यत उत्साहो लक्ष्मीलताया आदिम मूलमस्ति " | साऽपि जगाद-" सा कुलीना तव नामापि न सहते । स्थले जलारोपणमिब तवेप्सितं दुष्करं प्रतिभाति । स्वदर्थसिद्धिस्तु संदिग्धा, मम भर्त्सनं तु निःसंदिग्वमेव । तथापि बनाशां त्यक्त्वा शीघ्रं यास्यामि " इत्युक्त्वा तापसी पुनरपि दुर्गिला गत्वाऽमृतद्वसहशैर्वचनैरुवाच-“हे दुर्गिले ! रूपेणाऽऽत्मानुरूपं तं युवाने प्राप्य तेन रमस्व । यौवनफलं गृहाण । यतो यौवनस्येदं फलमस्ति" दुर्मिला तां तापसी भर्त्सनापूर्वकं गले धृत्वा रुष्टेवाशोकवनिकाप्रत्यद्वारेण निःसारयामास । सा तापसी लज्जाबशाकृष्टोत्तरीया गोपितमुखी खेदभाग द्रतं गत्वा तस्य पुंसो दुनिलावृत्तं कथयामास “ हे मन् | अहं तया प्राग्वद भसिता गले धृता पश्चादद्वाराऽशोकवनान्तरानिःसारिताऽस्मि । ततो धीमान् स पुमानेवं दध्यौ-" अशोकबनिकान्तरे स्वमागच्छेरिति सकेतस्तया दत्तो मम" | तामुवाच -“हे तापसि! तया भसेंना कृता सा सोढव्या । अतः परं सा दुष्टा ॥२८॥ For Private And Personal use only

Loading...

Page Navigation
1 ... 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65