Book Title: Jambuswami Charitam Author(s): Shubhankarvijay Publisher: Ramanlal Chhotalal Parikh View full book textPage 7
________________ Sun Mahavir Jain AradhanaKendra www.kobatirtm.org Acharya ganun yonmandir . जम्मू श्रीजम्बूस्वामिचरित्रम् । इमार महर्षयः जानन्तोऽपि सावधं न जल्पन्ति, हे कल्याणि ! जिनपादोपदेशेन निमित्वज्ञानकुशलोऽहमेव तत्कथयामि तच्छृणु-धीरस्वभावो मनसा कायेन च पराकमी शिलाप्राठे समुपाविष्टः सुधर्मास्वामी त्वया यत् पुत्रजन्म पृष्ठस्तत्रेदं बोध्यम्, "यदा स्वमेवं कोडस्थित. सिंह द्रक्ष्यसि ततो गर्भ पुत्रसिंह धारयिष्यसि, समये प्रसिद्धजम्बूवृक्षवद्गुणरत्नमयश्च जम्बूनामा देवताकृतसन्निधिस्तव पुत्रो भविष्यति । ततो धारिण्युवाच-" विद्वन् । तर्हि जम्बूदेवतामुहिश्याष्टोत्तरशतमाचाम्लान्यहं करिष्ये"। ततस्ते त्रयोऽपि कमला वैभारगिरिशिखरादत्तीय स्वपुर जग्मुः। ततस्ती दम्पती सिद्धपुत्रवचनपत्याशया गृहस्थता पालयन्ता काल गमयामासतुः । ____एकदा धारिणी स्वप्ने श्वेतवर्ण सिंहमपश्यत्, तेनातिपसन्ना सा तत्स्वप्नं स्वामिनं कथयामास । ऋषभः प्रत्युत्ततार-“प्रिये ! अनेन स्वप्नेम मम विश्वासोऽजनि यत् सिद्धपुत्रवचनं तत् सर्वे सत्यमेव । हे महाभागे ! पवित्रचरित्रः शुभलक्षणो जम्बूनामा पुत्रस्तवावश्यमुत्पत्स्यते । " अथ समये जाते तदा विद्युन्मालिसुरो ब्रह्मदेवलोकाश्युस्खा धारिणीकुक्षौ शुक्तौ मौक्तिकमणिरिवावततार । ततो धारिण्या देवगुरुपूजनेषु दोहदः समजनि, यतो नारीणां दोहदा गर्भभावानुसारिणो भवन्ति । ऋषभः श्रेष्ठी भूयसा धनेन तद्दोहदमपूपुरत् , अछ्यपि धनव्यये धर्मकार्ये उत्पन्नदोहद इवाभूत् । क्रमेण धारिणी पुष्यद्गर्भाऽतिमन्दं गमक्केशागमभीत्या सावधानेव सश्चचार । तस्याः कपोलफलकावतिपाण्डुतया प्राभातिकचन्द्रविम्बसदृशावभूताम् । ततः सार्थसप्तदिनाधिकनवमास्या धारिणी दीप्तिजितसूर्य पुत्रं मासूत । तदर्षभस्य गेहे मुक्काचूर्येव घटितैरतिविशदैरक्षतैः पूर्णानि सुवर्णपात्राणि प्रविविशुः । श्रेष्ठिनि कुलवृद्धस्त्रीक्षिप्तैघ्युतैर्दू बांकुरैस्तदासनाऽऽसन्नभूमितले दूर्वावणमिब बभूव । ऋषभगृहद्वारे सकलकल्याणप्रधानानि बहुविधानि तूर्यवर्याणि लक्ष्मीनृत्यनिबन्धन नेदुः । कुलाननाच नवकुसुमस्तवकषितकेशपाशा मधुमत्तकोकिलस्वरेण संगायन्स्यो ननृतुः, ऋषभश्च विशेषतो देवगुरुपूजा HOT ॥४॥ For Private And Personal use onlyPage Navigation
1 ... 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65