________________
Version 001: remember to check http://www.AtmaDharma.com for updates
समयसार गाथा ६: आत्मख्याति टीका
कोऽसौ शुद्ध आत्मेति चेत्
ण वि होदि अप्पमत्तो ण पमत्तो जाणगो दु जो भावो। एवं भणंति सुद्धं णादो जो सो दु सो चेव।।६।। नापि भवत्यप्रमत्तो न प्रमत्तो ज्ञायकस्तु यो भावः। एवं भणन्ति शुद्धं ज्ञातो यः स तु स चैव।।६।।
यो हि नाम स्वतः सिद्धत्वेनानादिरनन्तो नित्योद्योतो विशदज्योतिर्ज्ञायक एको भाव: स संसारावस्थायामनादिबन्धपर्यायनिरूपणया क्षीरोदकत्कर्मपुद्गलः सममेकत्वेऽपि द्रव्यस्वभावनिरूपणया दुरन्तकषायचक्रोदयवैचित्र्यवशेन प्रवर्तमानानां पुण्यपापनिर्वर्तकानामुपात्तवैश्वरूप्याणां शुभाशुभभावनाम् स्वभावेनापरिणमनात्प्रमत्तोऽप्रमत्तश्च न भवति। एव एवाशेषद्रव्यानामभावेभ्यो भिन्नत्वेनोपास्यमानः शुद्ध इत्यभिलप्यते।
न चास्य ज्ञेयनिष्ठत्वेन ज्ञायकत्त्वप्रसिद्धः दाह्यनिष्ठदहनस्येवाशुद्धत्वं, यतो हि तस्यामवस्थायां ज्ञायकत्वेन यो ज्ञात: स स्वरूपप्रकाशनदशायां प्रदीपस्येव कर्तुकर्मणोरनन्यत्वात् ज्ञायक एव।
Please inform us of any errors on rajesh@AtmaDharma.com