Book Title: Durgapushpanjali
Author(s): Jinvijay, Gangadhar Dvivedi
Publisher: Rajasthan Puratattvanveshan Mandir
View full book text
________________
नवदुर्गा - स्तवः
नवदुर्गा - स्तवः ।
कार्येण यानेकविधां श्रयन्ती
पूर्वकारुण्यरसार्द्रचित्ता
निवारयन्ती स्मरतां विपत्तीः ।
सा शैलपुत्री भवतु प्रसन्ना ॥ १ ॥
स्वर्गोऽपवर्गो नरकोऽपि यत्र
विभाव्यते टक्कलया विविक्तम् |
या चाद्वितीयाऽपि शिवद्वितीया
सा ब्रह्मचारिण्यवताद् भयेभ्यः || २ ||
८३
नवदुर्गा - स्तवः ।
१ - या कार्येण कार्यगौरवेण अनेकविधां श्रयन्ती नानास्वरूपं आदधती, स्मरतां चेतसि भावयतां, विपत्तीः श्रापदः, निवारयन्ती दूरीकुर्वन्ती, विजयते इत्यध्याहारः । सा अपूर्वकारुण्यरसाद्र चित्ता अपूर्व: य. कारुण्यरसः करुणाप्रवाहः तेन आर्द्र' द्रवीभूतं चित्त ं यस्या सा । शैलपुत्री हिमवत कन्या पार्वती, प्रसन्ना भवतु प्रसीदतु । उपजातिवृत्तम् ।
२-यत्र यस्यां स्वर्ग. दिव्यो लोकः, अपवर्गो मुक्तिमार्गः, नरकः निरयश्च दृक्कलया, दृश्यते श्रनया इति दृक् तस्याः कला सामर्थ्यं तया । ज्ञानदृष्ट्य त्यर्थ. । अतएवागमे
'नियतानेव निर्भिद्य कांश्चिदर्थान् निजेच्छया । उन्मज्जयति यत् स्वस्माद् दृक्शक्तिः सा निगद्यते ।'
इत्युपबृ ंहणं पुरस्क्रियते । विविक्तं पूतं विभाव्यते अनुभूयते । या, द्वितीया
१-सर्वविधैश्वर्यखनिरपि भगवती हिमवतस्तपश्चर्यया प्रसन्ना करुणापरवशा प्रतितुच्छतरमपि पुत्रीभावमापेदे इति कियदभिनन्दनीयमस्या वात्सल्यमित्यादिकथारसः कूर्मपुराणे स्फीतो द्रष्टव्यः ।

Page Navigation
1 ... 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201