Book Title: Durgapushpanjali
Author(s): Jinvijay, Gangadhar Dvivedi
Publisher: Rajasthan Puratattvanveshan Mandir

View full book text
Previous | Next

Page 192
________________ १४४ दुर्गा-पुष्पाञ्जलिः निष्कामचित्त न किलकतानः परामृशन्वस्तु गुरूपदिष्टम् । उदारभावो रचयेत सौख्यं परं परेपामपि कि स्वनिष्ठम् ॥ ६ ॥ ॥ इति आत्मोपदेशः ॥ इत्ययोध्यापरप्रान्तवर्तिपण्डितपुरीवास्तव्यद्विवेदोपाख्याचार्यश्रीसरयूप्रसादसुतमहामहोपाध्यायश्रीदुर्गाप्रसादद्विवेदविरचिते दुर्गापुष्पाञ्जलौ द्वितीयो विश्रामः । समाप्तचायं दुर्गापुष्पाञ्जलिः । शं वोभत्रीतु। -निष्कामचित्तेन कामनाबहिर्भूतेन चेतसा, परमेश्वरसमर्पितेन अन्तःकरणेन च । एकनानः अनन्यवृत्तिर्भवन् , गुरूपदिष्टं गुरुणाभ्यनुज्ञातम् । वस्तु-परमार्थंकरूपं ध्येयम् । परामृशन्- यथोपदेशं अविछिन्नं विभावयन् । उदारभाकः रागद्वेषादिभिरनभिभूत. सर्वभूतहितैषितया वा प्रवृत्तः । अत इदमप्य लोचनीयम् 'अविद्वेपेण सर्वेषां कुर्वन् कर्म यथाकुलम् । सभाजयन् महेशानं विन्देन्नि श्रेयसं ध्रुवम् ।।' इति । परेपां अन्तरग-वहिरङ्गभावप्रतिष्ठानाम् लोकानाम् । परं. सौख्यं, आत्यन्तिकं मन प्रसादमात्मसंतोपं वा रचयेत पुरस्कुर्यात् । किं पुन स्वनिष्ठमात्मगतम् । यो हि विद्वेष्युदासीनानपि प्रसादयितुं समर्थो भवेत्- तस्मिन्नन्तःकरणसंपृक्त सुखराशिरनुरक्त इव प्रयासमन्तरेणैव प्रतिफलेदिति को वा विशेप स्वस्मिन् परस्मिन् वेति शिवम् ।

Loading...

Page Navigation
1 ... 190 191 192 193 194 195 196 197 198 199 200 201