Book Title: Durgapushpanjali
Author(s): Jinvijay, Gangadhar Dvivedi
Publisher: Rajasthan Puratattvanveshan Mandir
View full book text
________________
१४२
दुर्गा-पुष्पाञ्जलिः
तदात्मरत्नं न बहुश्रु तेन
न वा तपोराशिवलेन लभ्यम् । प्रकाशते तत्तु गुरूपदिष्ट
ज्ञानेन जन्मान्तरखएडकेन ॥ ७ ॥
जात्या गुणेन क्रियया च सम्यग
गतप्रमादो विदधद्विधेयम् ।
-
७-तदिदं प्राक् प्रतिपादितं आत्मरत्नं, रत्न इव महार्घ स्वरूपख्यातिरूपं, बहुश्रुतेन अनेकप्रस्थानबहुलेन शास्त्राडम्वरेण, न वा तपोराशिवलेन-कृछचान्द्रायणादि व्रतोपवासरथवा आगमोदिष्टः पञ्चधारोपासनै तदङ्गभूतैर्जप-पारायणादिभिर्वा प्रासादयितुं शक्यते । तत एव गीतासु-नाहं वेदैन तपसा न दानेन नचेज्यया' इत्येवमादि गीतम् (भग. १११५३)। किंतु केवलं तत् गुरुपदिष्टेन गुरुणा प्रतिबोधितेन । ज्ञानेन तत्त्वोपदेशेन । प्रकाशते यथायथमाविर्भवति । यस्य ज्ञानरूपस्य प्रकाशैकमूर्तेरधिगमे संसरणकधर्माणो जन्म-जरा-मरणादय. स्वतः पराभूताः न पुनरुद्भवायोत्सहन्ते ।
८-जात्या-जायते प्रादुर्भवति इति जातिर्ब्राह्मणत्वादिरूपा । 'जनी प्रादुर्भावे' । जातिप्रभवेण अतिशयेन । स चायमतिशयः शुक्रशोणितसमारब्धः संस्कारशाणोल्लीढो वर्णधर्मतया परीक्षणीयः । न चायं जात्युत्कर्पः केवलं मनुष्यजातिनिष्ठ एव यावद् गजाश्वादिचेतनेषु एवमाकरोद्भवेषु रत्नाद्यचेतनेष्वपि समानभावेनाहितो द्रष्टव्यः । अत्रेमानि वर्णाश्रमसूत्राणि
'कूपतडागादिजलवद् ब्राह्मणादिजाति भिन्नस्वभावा ।' अश्वादिवजन्मनैव जाति., कर्मणा तु विशिष्यते ।' न ह्यवयवसाम्येऽपि कर्मणा कोपं वारि नादेयं भवति ।' एतेन वर्णा आश्रमाश्च व्याख्याता. ।
(१ श्राहिक. सू. ३. ४.५६) गुण्यते आमन्त्र्यते इति गुण. शीलादिरूप. | 'गुण आमन्त्रणे' । करणं क्रिया, व्यापार । तदेवं जातिगुणक्रियासमारब्धेनोत्कर्पण यथायथं व्यवहारद

Page Navigation
1 ... 188 189 190 191 192 193 194 195 196 197 198 199 200 201