Book Title: Durgapushpanjali
Author(s): Jinvijay, Gangadhar Dvivedi
Publisher: Rajasthan Puratattvanveshan Mandir

View full book text
Previous | Next

Page 188
________________ १४० दुर्गा-पुष्पाञ्जलिः (महाभा. वनप. ३१३ अ. १७ श्लो.) अनेकशास्त्रार्थविमर्शनेन तत्तन्महाव्यक्तिनिदर्शनेन । त्रैकालिकज्ञानविकस्वरेषु महाजनत्वं गुरुपूपदिष्टम् ॥ ५ ॥ - मनुस्मृतिकार-- 'अचिन्त्याः खलु ये भावाः न तांस्तर्केण योजयेत् । प्रकृतिभ्यः परं यच्च तदचिन्त्यस्य लक्षणम् ।।' इत्येवं निरदिक्षत् । यत्पुनरनेनैव 'यस्तर्केणानुसन्धत्ते स धर्म वेद नेतरः ।' इत्यादिकं निरूप्यते तत्तु सत्तर्कविषयं, विनेयानां वस्तुस्वरूपावगमायातितरामुपादेयं समाद्रियत एवेति न तत्र विप्रतिपत्तेरवसर इति सक्षेपः । __ श्रूयत एव हिरण्यगर्भादिगुरुपरम्परया नतु केनचित् क्रियत इति श्रुतिः, अपौरुपेयी वाक् । तासु शब्दतोऽर्थतश्च विभिन्नता प्रतिपाद्यानां परस्परं विसंवादः । स च सहिताब्राह्मणादिग्रन्थेभ्यः विशिष्य वेदशिरोभागतया प्रसिद्धेभ्यः उपनिपदादिभ्यश्च सुप्रतीत एव । आम्नायार्थमधिकृत्य सायनाचार्याणां ऋग्वेदभाप्यभूमिकादौ कृतं विवेचनं श्रौतमार्गानुयायिनां सुविदितमेवेति किमत्र पौनरुत्त्येन । ऋपति आम्नायं पश्यति इति ऋपि. । अयमस्माकं आर्यावर्तः प्रधाना ऋपीणामावासभूमिरिति श्रुति-स्मृति पुराणपरम्परात. सुव्यक्तमेव । विभिन्नेषु कालेष्वाविभूतानाममीपा महाविभूतीनां हृदयागारेवाविर्भवन्ती वैदिकवाङ्मयस्य शब्दार्थरुपा महती संपत्तिभिन्नप्रकृतिका रहत्यार्थबहुला चेति प्रायेण सर्वेपामत्रविपये ऐकमत्यमेव परीक्ष्यते । एवञ्च रहस्योपदेशकानां ऋषीणां मतसंपाते कतरत् प्रमाणभूत इति प्रश्ने इदम्परतया न किमपि वक्तुं पार्यते । न वा तेवप्रामाण्यमास्थातुं शक्यत इत्युभयत. पाशारज्जु । एवंविचे व्यतिकरे आस्तिक महाजननुएणेनैव पथा गन्तव्यमित्युत्तराचैन सिद्वान्तवति । अभ्युदयनि.श्रेयससिद्धिरूपस्य भगवतो धर्मवृपस्य तत्त्व गुदायां हृदयगहरे निहितं प्रतिष्टितम् , न परमार्थतो ज्ञातुं सुकरम् । अतः

Loading...

Page Navigation
1 ... 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201