Book Title: Durgapushpanjali
Author(s): Jinvijay, Gangadhar Dvivedi
Publisher: Rajasthan Puratattvanveshan Mandir

View full book text
Previous | Next

Page 191
________________ आत्मोपदेशः लमेत यत्तेन सदैव तुष्यन् यतेत भाग्यार्पितकार्य कायः ॥८॥ शामवतीर्णः । गतप्रमादः मानुष्यकसुलभैः शारीरैः मानसैश्च प्रमादैःपरिवर्जितः । कर्तव्यकर्मस्वन्तः पातिनीभित्रुटिभिर्विवर्जित इति यावत् । विधेयं लोकयात्रास्वावश्यकतया समुपनतं तत्तत्कार्यजातं, विधद् यथायथं संपादयत् । यल्लभेत परिश्रमस्य प्रतिफलभूत बह्वल्पं वा जीवननिर्वाहार्थ यत्किमप्यासादयेत् , तेनैव संतुष्येत् । यतः परिश्रमानुरूपः संपल्लाभोऽपि भाग्यायत्त एव इति न तत्र पराश्रिते वस्तुनि उद्विग्नेन अन्यमनस्केन वा भवितव्यम् । प्रत्युत भाग्ये अदृष्टादि नानानामव्यवहार्ये दैवे, अर्पित. न्यस्तः कार्यकायः उच्चावचस्य कर्मण प्रसरो येन तथाभूत. सन् , यतेत उद्योगयन्त्रितो वर्तेत । उपपादितञ्चैतत् पुष्पाञ्जलिकृता चातुवर्ण्य शिक्षायाम्'उद्योगशस्त्रप्रणयीप्रमृष्ट- . धीदर्पणालोकितकार्यकाय. । बम्भ्रम्यमाणो वसुधान्तरेषु समीहितार्थान् क्रमशोऽभ्युपैति ।। उद्योगयन्त्रे परिवर्तितेऽपि चे वयोगान्न फलोदय स्यात् । - तथापि यत्न करणीय एव प्रारब्धशय्याशमितक्लमेन ॥ - (चातु. शि. त्रिवर्ग. १३६. १४०) तथा दशकण्ठवधाख्ये चम्पूरत्नेऽपि 'सर्वमेव हि संसारे पौरुषादेव लभ्यते । न तादृक् किंचिदप्यत्र यदलभ्यमुदीयते ।। शास्त्रोपदिष्टमार्गेण यद् देहेन्द्रियचेष्टितम् ।। तत्पौरुषं तत्सफलमन्यदुन्मत्तज़म्भितम् ।' इति । एवम् 'न यातव्यमनुद्योगै. साम्यं पुरुषगर्दभैः । उद्योगो हि यथाशास्त्रं लोकद्वि तयसिद्धये ॥ इति ।

Loading...

Page Navigation
1 ... 189 190 191 192 193 194 195 196 197 198 199 200 201