Book Title: Durgapushpanjali
Author(s): Jinvijay, Gangadhar Dvivedi
Publisher: Rajasthan Puratattvanveshan Mandir

View full book text
Previous | Next

Page 194
________________ १४६ दुर्गा-पुष्पाञ्जलिः विद्योतते यदुपकण्ठमुदारवामिन नागेश्वरः स भगवान् दयमानमूर्तिः । यो गल्लनाद-सरयूजल-बिल्वपत्रै रम्यच्यते जनतया नतया समन्तात् ।।३।। यस्यामसीममहिमा महिमानपूर्व माराध्यते स पुरनायक श्राञ्जनेयः । रामाज्ञया सकललोकदिदृक्षयेव य स्तुङ्गहर्म्यनगमेत्य भृशं चकारित ॥४॥ साकेततो वरुणदिक्कृतसन्निवेशा भ्राजिष्णु-साम्बशिवमन्दिरम गर्भा । नानाद्रुमव्रतति-कुञ्जमनोऽभिरामा सा भाति पण्डितपुरी मम जन्मभूमिः ॥॥ अनन्यसाधारणधर्मकों य आगमादिश्रु तपारदृश्वा । स्फुरत्प्रभावः प्रपितामहो मे जनादृतः श्रीसरयूप्रसादः ॥६॥ सरस्वतीविभ्रमरङ्गभूमिः कविः परज्योतिनिविष्टचेताः । दुर्गाप्रसादाख्यपितामहो मे चकार यो नैकविधान् निवन्धान् ।।७।। सौभाग्यसौजन्यगुणैरुदारः साहित्यसेवी गणितागमज्ञः । अनेकभाषाकुशलश्वकास्ति मत्तातपादो गिरिजाप्रसादः ॥८॥

Loading...

Page Navigation
1 ... 192 193 194 195 196 197 198 199 200 201