Book Title: Durgapushpanjali
Author(s): Jinvijay, Gangadhar Dvivedi
Publisher: Rajasthan Puratattvanveshan Mandir
View full book text
________________
परिमलनिर्मातुः परिचयः
१४५ जयति जगति संविदात्मिकाया
श्वरणसरोजरजोद्भवः प्रसादः। अभिमतकरुणाभरै र्यदस्या
स्तवविवृतिः परिपूरिता मयैषा ॥१॥ इति परिमलगर्भ एष हृद्यः
स्तुतिकुसुमैः कलितोऽञ्जलिः प्रकामम् । दिशतु सुमनसां मनःप्रसाद
स्तवनरसालशिखास्तु पुष्पिताग्रा ॥२॥ शुभविक्रमाव्दरविविंशतिके (२०१२ वि.सं.)
मधुमाधुरी - सुभगभावचिते । प्रमिताक्षरापि विशदार्थवती
मम भारती गुरुमुदेऽस्तु सती ॥३॥ इत्ययोध्यापश्चिमप्रान्तवर्तिपण्डितपुरीवास्तव्य द्विवेदोपाख्याचार्यश्रीगिरिजाप्रसादसुतगङ्गाधरद्विवेदकृतिषु पुष्पाञ्जलिपरिमलः संपूर्ण इति शिवम् ।
अथ परिमलनिर्मातुः परिचयःअस्ति प्रशस्तजनता जनतापहन्त्री
प्रत्याशभास्वरमणी रमणीयकान्तिः । उद्दण्ड-दण्डधरयोद्ध शतैरयोध्या
। योऽध्येति नाम नगरी नगरीषु रम्या ॥१॥ चेतो हरन्ति मृदुकम्पनकेलिकम्रा
यस्या उदपरिसरे सरयूतरङ्गाः । एभ्यः करालकलिकालमलाभिषङ्ग
मूलावसादनकृते स्पृहयन्ति लोकाः ॥२॥

Page Navigation
1 ... 191 192 193 194 195 196 197 198 199 200 201