Book Title: Durgapushpanjali
Author(s): Jinvijay, Gangadhar Dvivedi
Publisher: Rajasthan Puratattvanveshan Mandir

View full book text
Previous | Next

Page 187
________________ १३६ आत्मोपदेशः तर्कोऽप्रतिष्ठः श्रु तयो विभिन्ना नैको ऋषिर्यस्य मतं प्रमाणम् । धर्मस्य तत्वं निहितं गुहायां महाजनो येन गतः स पन्थाः ॥४॥ असंस्पृष्टा । मुक्तावदाता-मुक्तेव अवदाता मौक्तिकमिव धवलवर्णा । सत्त्वगुणस्निग्धेति भावः । धिषणा वस्तुतत्त्ववेदिनी प्रज्ञा एव प्रमाणम् - आत्मसाक्षिकतया प्रमाणभूता । तत्र च स्वहृदयसंवाद एव परं प्रामाण्यमित्ति तात्पर्यम् । एष एव च राजमार्गः । यत एतदन्तरेण नान्यत् किमपि विनिगमकान्तर हृदयसंवादसौष्ठवाय अलङ्कर्मीणमिति मन्वादिमहापुरुषाणां वाक्यबलेनाग्यनुसन्धेयम् । अत्रेदमभिज्ञानशाकुन्तलीयपद्यमवतरति 'सतां हि सदेहपदेषु वस्तुषु प्रमाणमन्तःकरणप्रवृत्तयः ।' इति । ४-पूर्वोक्तस्य विसंवादस्य निरासाय, स्वोक्तार्थस्य च पूर्वेषामपि संमतत्वेन प्रकृतार्थे महाभारतीयं पद्य किचित्परिवर्त्य उपोद्वलकतयोपन्यस्यते-'तर्कोऽप्रतिष्ठ इत्यादिना । तर्कलक्षणश्च यथाह गौतमः'अविज्ञाततत्त्वेऽर्थे कारणोपपचितस्तत्त्वज्ञानार्थमूहस्तर्क.।" (न्या. द.१-४०) तर्कस्य चैष स्वभावो यदयं एकेनोत्प्रेक्ष्यमाणः परेण बाध्यते, तेना युत्प्रेक्ष्यमाण अन्येन, ततोऽपीतरेण इत्येवं यथोत्तरं उपमर्दसगरेषु व्याहन्यमानो नवनवां भूमिकामाविष्कुर्वन् नैकत्र कचित् प्रतिष्ठां लभते । अतएव भगवता चादरायणेन 'तर्काप्रतिष्टानादग्यन्यथानुमेयमिति चेदेवमप्यनिर्मोक्षप्रसङ्गः । (वेदान्तद. २. १. ११) इति सूत्रयता तर्केष्वनास्था प्रतिपादिता । तत्र लोकैरुत्प्रेक्षितस्तों यावद् भूत-भौतिकपदार्थेषु प्रसज्यमानो नैवास्माकमिह लक्ष्यभूत । स तु स्वभावानुसारेण यथायथं संचरतां तावत् । परमागमिके वस्तुनि यदस्य स्त्रैरविजृम्भणं तन्मूलप्रच्यावाय भवन् वाच्यताकोटिष्वन्तर्भवति । तादृशश्चाचं तर्कः आगमप्रवणैराचार्य. सुपरीक्ष्य प्रत्याख्यात. । तर्ककोटीनामुद्गमः तासा भङ्गप्रकारश्च प्रकृतसूत्रे शारीरकभाष्ये सविस्तरमुपपादितरे दर्शनार्ह । तत एव

Loading...

Page Navigation
1 ... 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201