Book Title: Durgapushpanjali
Author(s): Jinvijay, Gangadhar Dvivedi
Publisher: Rajasthan Puratattvanveshan Mandir

View full book text
Previous | Next

Page 186
________________ १३८ दुगा-पुष्पाञ्जालः व्याख्यानलेनाभिनिवेशभाजा प्रमेयभेदो बहुधाभ्युदेति । तत्रास्ति मात्सर्यकलङ्कमुक्ता मुक्तावदाता धिषणा प्रमाणम् ॥३॥ प्रयोजनापेक्षितयैव लोके व्यवहाराणां प्रवृत्तिर्वा निवृत्तिर्वा दृश्यते । सर्वेषाञ्चारब्धकर्मणां मूले यत्किमप्युद्दश्यतया अवश्यमन्तस्तिष्ठतीति सर्वैरेवानुभूयते । तत उद्देश्यस्य भेदोपगमे विधेयमपि स्वभावतया भिद्यत एव । तदेवमुढ श्यानुसारेणैव अनेकप्रस्थानभिन्नानां शास्त्राणामवतारः । तेषु च यथाप्रसङ्गं परस्पर वैषम्यसंपाते इदं ग्राह्यमिदं वेति अन्यतरपक्षप्रतिष्ठाने प्रतिभावतो मन्दप्रज्ञस्य च महद्वैशसमुपतिप्ठते । उभयत्र यत्किंचिद् गमकस्य अवश्यंभावात् । एवमा दिष्ववसरेषु आस्तिकैः ईश्वरोन्मुखै दूरदर्शिभिः, आद्रियमाणं कर्तव्यतया निश्चीयमानं कर्म, परमार्थसिद्धय तत्त्वनिर्णयोपलब्ध्य विभावनीयं सिद्धान्ततया सगमनीयम् । ३-अभिनिवेशो नाम यस्य कस्यचिद् वस्तुन सदसद पपरिचयानन्तरमपि कचित् गतानुगतिकतया क्वचिच्च अहंभावोद्रेकेण इदमेवं भवेदित्याग्रहपहिलतया अवस्थानम् । तत्र प्राधान्येन व्याख्याबलमेव सहकारिभावं भजते । तदाधारेण च यद् यथा प्रतिपादयितुमिप्यते तत् तथा प्रतिपाद्यते । यथा वस्तुदृष्टया एकमपिब्रह्मसूत्रं व्याख्यानरगभूमिप्ववतीणे मतिजम्बालेषु निमग्नं सहस्रशाखमिवाभूदिति नातिरोहितं मार्मिकाणम् शास्त्रवेदिनाम् । दर्शनान्तरेष्वप्येवंभूतानि निदर्शनानि बहुत्र सुलभानि प्रेक्षावद्भिः स्वयमुत्प्रेक्षितुं सुशकानीति किमत्र निदर्शनप्रयासेन । तदेवं प्रौढिवादसहकृतेन प्रकृति-प्रत्ययादिमूलकेन व्याकरणादिप्रपञ्चोपस्थापनेन, कांचच शान्नान्तरसंवादानुपपत्तिप्रदर्शनेन च स्वाभिमतार्थस्य स्थापनाये यावदलमनुधावनं क्रियते । येन च वस्तुस्थितिरन्यथान्यथा नीयमाना प्रमेयस्वरूपभगाय तद्विप्रलोनाय वा परिणमति । एवंभूते व्यतिकरे तटस्थेन शास्त्रसिद्वान्तजिनासुना विसंवादपरीते शात्रिके मार्ग कः पन्या पाश्रयणीयः, कथञ्च तत्र वर्तितव्यमिति प्रश्न समाहितुमुत्तरार्धमारमते तत्र विनयादन्याकुलीभृतेऽपि शान्नसमये, समुपनते च युक्तायुक्तपरीक्षणे। मात्सपलमुता-अन्यशुभ पो मत्सर, तस्य भावो मात्सर्य अनहिष्णुत्वमिति यावत् । तदेव कन मलिनत्वसंमग, तेन मुक्ता

Loading...

Page Navigation
1 ... 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201