Book Title: Durgapushpanjali
Author(s): Jinvijay, Gangadhar Dvivedi
Publisher: Rajasthan Puratattvanveshan Mandir

View full book text
Previous | Next

Page 136
________________ ८८ दुर्गा-पुष्पाञ्जलिः या चण्डी मधुकैटभप्रमथिनी या माहिपोन्मूलिनी या धूम्रक्षणचण्डमुण्डदलिनी या रक्तवीजाशिनी । शक्तिः शुम्भनिशुम्भदैत्यदलिनी या सिद्धिलक्ष्मीः परा सा दुर्गा नवकोटिमूर्तिमहिताऽस्मान् पातु सर्वेश्वरी ॥१०॥ ॥ इति नवदुर्गा-स्तवः ॥ १०-या परब्रह्मस्वरूपिणी चण्डी कोपनशीला । भयजनककोपार्थकात् 'चडि कोपे' इत्यत. पचाद्यचि 'पिगौरादिभ्यश्च' इति डीप । उक्तञ्च भुवनेश्वरीसंहितायाम् 'यद्याद् वाति वातोऽयं सूर्यो भीत्या च गच्छति । इन्द्राग्निमृत्यवस्तद्वत् सा देवी चण्डिका स्मृता ॥” इति । तत एव रुद्राध्याय्यामपि 'नमस्ते रुद्रमन्यव-' इत्यारम्भमन्त्रे प्रथमं मन्यव ग्य प्रणतिः प्रयुज्यमाना साधु सङ्गच्छते । लोकेऽपि चण्डभानु. चण्डवात इत्येवमादिप्रयोगेपु भयजनककोपार्थकत्वं सुप्रसिद्धमेव । किञ्च 'भीपास्माद्वात. पवते भीषोदेति सूर्य ।। ___ भीपास्मादग्निश्चेन्द्रश्च मृत्युर्धावति पञ्चमः ।।' इत्यादि श्रुतिरप्यत्रमंवादिनीति द्रष्टव्यम् । मधुकैटभवधप्रधानं श्रीमहाकालीचरितं सप्तशत्या. प्रथमाध्यायरूपं प्रथमचरित्रम् । एवं द्वितीयाध्यायमारभ्य चतुर्थाध्यायान्तं महिपासुरवधाख्यं श्रीमहालक्ष्मीचरितं मध्यमचरित्रम् । ततः पञ्चमादारभ्य त्रयोदशाध्यायान्तं शुम्भ-निशुम्भवधात्मकं श्रीमहासरस्वतीचरितमुत्तरचरित्रम् । अनयैव च धूम्रक्षणस्य, चण्डमुण्डयो. रक्तवीजस्य च वधः कृत इत्येपामन्तर्भाव. उत्तरचरित्रे एव द्रष्टव्यः । विस्तरस्त्वस्मत्प्रपितामहानां सप्तशती-सर्वस्वत आकलनीयः । या चण्डी परा अनुत्तरा, सिद्धिलक्ष्मी सिद्वेः सौभाग्यभूता श्रीरूपेणावस्थिता, सा नवकोटिभि मूर्तिभिः स्वरूपवितानभूतैरङ्गशक्तिभि. महिता पूजिता, सर्वेश्वरी सर्वस्यापि चराचरस्य स्वामिनी अस्मान् पातु अवतु । ।। इति नवदुर्गा-स्तव.।।

Loading...

Page Navigation
1 ... 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201