Book Title: Durgapushpanjali
Author(s): Jinvijay, Gangadhar Dvivedi
Publisher: Rajasthan Puratattvanveshan Mandir
View full book text
________________
दुर्गा-पुष्पाञ्जलिः सलिलकेलिपरायणवल्लवी
कमनकायरुचिच्छुरणादिव । दलितनीलमणिच्छविसोदरी
सुरवरारवराजितवेणिका ॥२॥ असितपक्षनिशादिशिखास्खल
त्तिमिरनिर्भरसंचयनादित्र ।
सर्वत्र यमकं शब्दालंकार. । अर्थालंकारस्तु यथासंभवं स्वयमूहनीय'। यमकलक्षणं त्वाचार्यदण्डिनोक्तम्
'अव्यपेतव्यपेतात्मा या वृत्तिवर्णसंहते । यमकं तच्च पादानामादिमध्यान्तगोचरम् ।। एकद्वित्रिचतुष्पादयमकानां प्रकल्पना ।
आदिमध्यान्तमध्यान्तमध्याद्याद्यन्तसर्वतः ।। अत्यन्तं बहवस्तेपां भेदा सभेदयोनय ।
सुकरा दुष्कराश्चैव दृश्यन्ते तत्र केचन ।।' इति । एवमस्य प्रभूततमभेदस्य यमकालंकारस्य तत्तद्विशेषान् दिक्षुभिरस्मत्पितामहचरणानां साहित्यदर्पणस्य छायाख्या विवृतिपूर्तिद्रष्टव्या ।
२- सलिलकेलिः जलक्रीडाव्यापारः, तस्यां परायणा आसक्तमना या वल्लवी गोपवधूः, तस्याश्च यः कमनः कामुक अभिरूपो वा कायः शरीराभोगः तस्य रुचे प्रभायाः छुरणादिव सम्पर्कादिव । दलितस्य द्विधाविभक्तस्य नीलमणे या छविः दीप्ति., तस्याः सोदरी सहोदरप्रसवा स्वसा इव नीलवर्णा । सुराः देवा. विद्वांसश्च तेषां ये वराः श्रेष्ठाः अभीष्टा वा पारवाः स्तवनशब्दा. तैः राजिता शोभिता वेणिका जलप्रवाहो यस्या सा ।
३- असितः सितेतर. स चासौ पक्षश्च इति असितपक्ष कृष्णपक्षः । तस्य च या निशा यामिनी सा एव अन्धकारबहुलत्वात् अद्रि. शैलः, तस्य शिखायाः शृङ्गप्रदेशात् । स्खलन् अध. प्रवहन् यः तिमिरम्य निर. तमसा प्रपात., तस्य

Page Navigation
1 ... 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201