Book Title: Durgapushpanjali
Author(s): Jinvijay, Gangadhar Dvivedi
Publisher: Rajasthan Puratattvanveshan Mandir

View full book text
Previous | Next

Page 172
________________ दुर्गा-पुष्पाञ्जलिः उभयतीरगतैः शमितातप प्रसरणा शरणागतवत्सला ॥५॥ सगणकालियभोगिफणैरिव प्रकटनीलसरोरुहकोरकैः । परिवृतोदितवल्लवमण्डली रसिकता सिकताश्रितधीवरा ॥६॥ प्रविततायतसैकतकैतवा दमरनिम्नगयेव करम्बिता । रणं व्याप्तिरनया । शरणागतेपु चरणशरणं संप्राप्तेषु वत्सला वात्सल्यस्नेहभरिता। ६- गणै. सहिताः सगणः, तथाभूताः ये कालिपभोगिन' कृष्णसर्पाः, तेषां फरणैः इव प्रकटा. स्कुटं दृश्यमाणा' नीलसरोरुहाण नीलकमलानां कोरकाः कुड्मलाः यस्यां तथाभूता । 'कलिका कोरक. पुमान्' इत्यमरः । परिवृता तत्तदावश्यकी चर्या समाग्य नदीसंतरणादि मनोविनोदाय वर्तुंलाकारेण संघटिता तटोपकण्ठमलड्कुर्वाणा इति यावत् । उदिता प्रसन्नवदना या वल्लवानां आभीराणां मण्डली, तस्या रसिका परिवृतोदितवल्लवमण्डलीरसिका, तस्या भावः तत्ता । वल्लवसमुदायस्य रस त्यर्थः । सिकतायां वालुकायां आश्रिताः शरणं गता. धीवराः कॅवर्ताः यस्या. सा तथाभूता।। ७- प्रविततं समन्ततो व्याप्तं श्रआयतं दीर्घ च यत् सैकत वालुकाप्रदेशः तस्य कैतवात् व्याजात् अमरनिम्नगया भागीरथ्या करम्विता आश्लिष्टा इव । करम्बः संजातो अस्या इति इतन् । सितासिते हि गङ्गायमुने इति घण्टापथ । प्रयागादन्यत्र च नानयो. कचित् संगम. संभवतीति सुप्रसिद्धं तावत् । परं कविसृष्टिपु मथुरायामपि द्वयोः संगम उत्प्रेक्षित इति द्रष्टव्यम् । अतएव रघुवीकारः 'यस्यावरोधस्तनचन्दनानां प्रक्षालनाद्वारिविहारकाले। कलिंदकन्या मथुरां गतापि गगोर्मिसंमतजन्नेव भाति ।।

Loading...

Page Navigation
1 ... 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201