Book Title: Durgapushpanjali
Author(s): Jinvijay, Gangadhar Dvivedi
Publisher: Rajasthan Puratattvanveshan Mandir
View full book text
________________
१९८
दुर्गा-पुष्पाञ्जलिः
अभिनवस्फुटशाखिशिखास्खलस्कुसुम संहतिसंकुल संचरा ।
नददुदारखगावलिरुच्चकै
रुपेवना पवनाधुतपल्लवा ॥ ३ ॥
रुचिरकुञ्जगृहान्तरसंचर
द्भुजगभोजिविकासितताण्डवा ।
सुनयनानयनादरजृम्भिता ||४||
विपुलसूरसुतापुलिनान्तरे
विकिरकेलिविमर्दसमुच्चर
त्कुसुमसौरभ सांद्रदिगन्तरा ।
रूपो नायिकाविशेषः । वरं सुन्दरं तामरसं कमलं उदकं जलन यस्यां तथाभूता ।
३ - अभिनवाः नूतनाः, स्फुटाः विकसिताश्च ये शाखिनः तरवः, तेषां शिखाभिः शाखाभिः स्खलन्ती निपतन्ती या कुसुमानां संहतिः पुष्पचयः, तया संकुलः सम्बाधः संचर संचारो यस्यां तथाभूता । नदन्ती मधुरं कूजन्ती या उदारा महती चासौ खगावलिः विहगश्रेणि तया उच्चकै उन्नतानि उपवनानि यस्यां तथाभूता । पवनेन वायुना आ समन्तात् धुता कम्पिताः पल्लवाः किसलयानि यस्यां सा ।
४ - रुचिरं मञ्जुलं यत् कुञ्जगृहं लतामण्डपं तदन्तरे संचरन्तः इतस्ततः सञ्चारं कुर्वन्तः ये भुजगभोजिनः भुजगान् सर्पान् भुञ्जते इति भुजगभोजिनो मयूराः । तैः विकासितं प्रकाशितं ताण्डवं नृत्यं यस्यां सा । ‘ताण्डवं नटन नाट्य' लास्यं नृत्यं च नर्तने' इत्यमरः । विपुलं अतिमहत् यत् सुरसुताया: कालिन्दया: पुलिनं तोयोत्थितं तटं तदन्तरे । शोभने नयने नेत्रे यासां तासां सुनयनानां कटाक्षवतीनां सीमन्तिनीनां, नयनादरैः श्रपानप्रेक्षितैः, जृम्भिता प्रसन्नवदना ।
५ - विकिराः विहंगाः, तेषां यः केलिविमर्दः क्रीडारसासक्ततया परस्परमुपमर्द:, तेन समुचरन वहिर्निगच्छन् यत् कुसुमस्य सौरभ आमोदभरः, तेन

Page Navigation
1 ... 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201