Book Title: Durgapushpanjali
Author(s): Jinvijay, Gangadhar Dvivedi
Publisher: Rajasthan Puratattvanveshan Mandir
View full book text
________________
१२६
मथुरा-माधुरी किमपि चेतसि नर्म वितन्वती
मुरजितोऽरजितोद्धतसंपदः ॥शा स्फुरित कविधच्छवितूलिका
लिखितवर्णचयहरिनामभिः । मधुरचित्रभृतासु कनत्मजा
सुखचिता खचिताऽऽलयभित्तिषु ॥६॥ निविडभावसमेधितभास्वर
स्वरजुपां रजसां तमसामपि । क्षतिकृतां महतां हरिकीर्तन
ध्वनिरमा निरमानितकल्मषा ॥७॥ -
सान्द्र घन दिगन्तरं दिशामन्तरालं यस्यां तथाभूता । अर सत्वर जिता स्वायत्तीकृता उद्धतानां दर्पवतां रक्षसां सपत् येन स', तस्य । मुरजितः मुरमथनस्य । मुरो नाम दैत्यविशेष. । तस्य वधात् भगवतो मुरजिदिति नाम लोके प्रसिद्धि प्रापत् । 'पार्थेनाथ द्विपन्मुरम् ।' इति माघ. । चेतसि मानसाभोगे । किमपि लोकोत्तराह्लादकरम् । नर्म क्रीडां वितन्वती विस्तारयन्ती ।
६- स्फुरिता उन्मीलिता, या नैकविधा अनेकवर्णवती । नेकविधेत्यत्र न शब्देन सह सुप्सुपेति समास. । छवेः सौन्दर्याधायकस्य रूपस्य, तूलिका कूर्चिका । शलाकेत्यर्थ. । 'तूलिका कथिता लेख्यकूर्चिका तूलशय्ययो' इति विश्व । तया लिखितः समुत्कीर्ण वर्णचयो वर्णावलिर्येषु तथाभूतै. । हरिनामभि. विष्णुवोधकैः राम-कृष्णादिशब्दै । खचिता संयुक्ता । मधुराणि हृदयप्रियाणि चित्राणि अालेख्यानि बिभ्रति इति मधुरचित्रभृत. तासु । मनोहराभिश्चित्रावलीभिरलड्कृतास्वित्यर्थः । एवंभूतासु आलयानां गृहाणां भित्तिपु कुड्य पु । कनन्ती चासौ प्रजा चेति कनत्प्रजा दीप्तिमल्लोकसमूह । तासां सुखै सौभाग्यसूचकै. चिता व्याप्ता।
७- निविडः सान्द्रीभूतो यो भावः श्रद्धातिशय. तेन समेधितैः दीर्घाकृतः, भास्वर प्रदीप्तै., स्वर वर्णोच्चारणध्वनिभि , जुषन्ते प्रीतिमाश्रयन्ते इति निविड

Page Navigation
1 ... 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201