Book Title: Durgapushpanjali
Author(s): Jinvijay, Gangadhar Dvivedi
Publisher: Rajasthan Puratattvanveshan Mandir

View full book text
Previous | Next

Page 183
________________ मथुरा-माधुरी अमरराजपुरीच सुवज्रिका भुजगराजपुरीव सुभोगका । मधुपुरी प्रतिसद्म मनोहर नवसुधा वसुधामलभूषणा ||१५|| • ॥ इति मथुरा - माधुरी ॥ १३५ व्रजाः प्रशस्ताः पन्थानः सन्तियस्यामिति व्रजवती प्राशस्त्ये मतुप् । मायैव मायका स्वार्थे कः । बह्वी चासौ मायका च बहुमायका । महतां महापुरुषाणाम् वहुमायका प्रचुरानुरागवती । तथा धनादिसंपत्तिप्राचुर्येणापि बहुमायकात्वमनुसन्धेयम् । पक्षे - अघटनसाधिका या महती शक्तिः तत्स्वरूपिणी मायेति नाम्ना पुराणादिषु प्रसिद्धा पुरी । या सांप्रतं हरद्वारेतिनाम्ना प्रसिद्धिं भजते । इहेदं सप्तपुरीणा परिचायकं कस्यचित् पद्यम् 'अयोध्या मथुरा माया काशी कानी अवन्तिका । पुरी द्वारावती चैव सप्तैता मोक्षदायिकाः ॥ ' आग से पापाय पापकारिणे वा अहिता प्रतिकूला । आगमाय आगमोक्तक्रियाकलापादिसंपादनाय आगतजनतायै वा हिता हितोपपादिका । श्रुतं शास्त्र तस्य शासनै उपदेशः महिता समृद्धा । १५ - अमराणां राजा इति श्रमरराजः देवराजो इन्द्र' । समासान्तष्टच् । तस्य या पुरी अमरावती सा इव । वज्रमेव वज्रिका, शोभना वज्रिका यस्यामिति तथाभूता । एकत्र वज्र ं हीरकम् परत्र इन्द्रस्यायुधम् । भुजगराजपुरी काशीपुरी सा इव सुन्दराः भोगिकाः विलासिनः पते सर्पाश्च यस्यां तथाभूता । मधुपुरी मधो दैत्यस्य पुरी मथुरेति लोके प्रसिद्धा । प्रतिसद्म प्रत्यावास, मनोहरन्ती चेतश्चमत्कुर्वती । नवसुधा नवा नवीना या सुधा 'चूना' इति हिन्दीभाषायां प्रसिद्ध गृहलेपनद्रव्यम् । सा अस्ति अस्यामिति तथाभूता । वसुधायाः वसुन्धरायाः अमलं दिव्यं यत् भूषणं तत्स्वरूपा विजयते । ॥ इति मथुरा - माधुरी ॥

Loading...

Page Navigation
1 ... 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201