Book Title: Durgapushpanjali
Author(s): Jinvijay, Gangadhar Dvivedi
Publisher: Rajasthan Puratattvanveshan Mandir
View full book text
________________
१३०
दुर्गा-पुष्पाञ्जलिः
विवुधसमसु पल्लवितोल्लस
ल्ललितभागवतामृतसेविभिः । विविधभक्तजनैश्च समन्ततो
चलयिता लयितालविघूर्णिता |८|| अयोध्यादिपुरीश्लेषेण मथुरामहितरामचरित्रपवित्रिता
ललितसारवनीरतरङ्गिता।
भावसमेधितभास्वरस्वरजुष. तेपाम् । भक्त्यु केण तारस्वरं पठतामितिभावः । रजसां रजोगुणानां तमसां तमोगुणानाञ्चापि क्षतिकृतां विनाशकानाम् । महतां भक्ततल्लजानाम् । हरिकीर्तनं कलिप्रधानं नृत्यवाद्यवहुल भगवन्नामोच्चारणम् । तस्य ध्वनिषु नादेषु रमते इति तथाभूता । निरमानितं निःशेषेण तिरस्कृतं कल्मपं वृजिनमनया तथाभूता ! पापराशिभिरसंस्पृष्टेति भावः ।
5- विवुधाः देवाः तेषां सद्मसु आलयेषु देवमन्दिरेष्वित्यर्थः । पल्लवितं विस्तारयुक्तं यथा स्यात् तथा उल्लसत् चकासत्, यत् ललितं शृङ्गारमधुरैः कथोपकथनैस्तरङ्गितं, भागवतं सुप्रसिद्ध भगवद्गुणाख्यानपरं पुराणम् । तदेव अमृतं पीयूपं तत्सेविभिः तदास्वादपरायणैः । श्रवणासक्तैरिति भावः । विविधैः अनेकधा विभक्तः, भक्तजनैः भक्तिरसाविष्टमानसैः पौरजनैः,समन्ततः परितः,वलयिता पुंस्त्रीमण्डलोपमण्डलैः परिवेष्टिता । लयितालविघूणिता-लयः नृत्य-गीत-वाद्यानामेकतानतारूपं साम्यम् । सोऽस्यास्तीतिलयी । तादृश. यः तालः मूर्च्छनारूप , करताल-करास्फोटनादिरूपश्च तेन विघूर्णिता सशिर कम्प आनन्दनिमीलिता।
इत आरभ्य स्तवसमाप्तिपर्यन्तं कविना अयोध्यादिसप्तपुरीश्लेपेण मथुरायाः वर्णनमुपक्रान्तमित्यनुसन्धातव्यम्___६- महितं लोकेपु पूजितं, रामस्य रौहिणेयस्य वलरामस्य, पक्षे रामस्य दाशरथेः । यत् चरित्रं लोकवृत्तं चरितं, तेन पवित्रिता पूता । ललितानि सुन्दराणि, धारवैः कलकलशब्दैः सहितानि सारवाणि शब्दायमानानीत्यर्थ. । पक्षे सरय्वां

Page Navigation
1 ... 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201