Book Title: Durgapushpanjali
Author(s): Jinvijay, Gangadhar Dvivedi
Publisher: Rajasthan Puratattvanveshan Mandir

View full book text
Previous | Next

Page 175
________________ मथुरा-माधुरी मथुरा-माधुरी। जयति सा परमाद्भुतराधिका रमणवृत्तपवित्रतरीकृता। कुसुमितद्रुमराजिविराजिता व्रततिकाततिकापरिवेष्टिता ॥१॥ सरसरासविहाररतस्वभू चरणपङ्कजलाञ्छितभूतला। वनगुहान्तरवासकसज्जिका नवरता वरतामरसोदका ॥२॥ मयुरा-माधुरी। १-सा लोकविश्रुता, परमश्वासावद्भुतश्च परमाद्भुतः अनेकाश्चर्याणां खनिः । एवंविधो यो राधिकाया. वृषभानुसुतायाः वृन्दावनललामभूतायाः, रमणः पतिः भगवान् वासुदेवः, तस्य यत् वृत्तं लोकातिशायिचरितं, तेन सविशेषं पवित्रीकृता इति पवित्रतरीकृता । पावित्र्योत्कर्षमानीता इत्यर्थः । कुसुमित्ताः सपुष्पाः याः द्रुमराजय पादपश्रेणयः ताभि. विराजित्ता विभूषिता । व्रतती एव व्रततिका लताप्रतानम् । स्वार्थे कन् । 'वल्ली तु व्रतत्तिलता' इत्यमरः । तासां ततिकाभिः पङ्क्तिभिः परिवेष्टिता परिवृता जयति । यमकालवार. । द्रुतविलम्बितं छन्द । २- रसेन मधुरालापेन सहितः सरसः । एवंभूतो यो रासस्य गोपप्रियस्य क्रीडाविशेषस्य, विहारः लीलाप्रसरः तस्मिन् रत्त. अनुरक्तः यः स्वभूः नारायणस्वरूपः श्रीकृष्णः । स्वेनैव भवति इति स्वभूः । किम् । तस्य चरणपङ्कजाभ्यां पादारविन्दाभ्यां लाञ्छितं अङ्कितं भूतलं यस्याः सा तथाभूता । नास्ति अवरता थस्याः सा अनवरता उत्कृष्टा । वनश्च गुहा चेति वनगुहे तयोः अन्तरे अरण्यपर्वतप्रदेशयोरन्तराले अपरा वासकसजिकेव सुशोभित्ता । वासकसजिका च'कुरुते मण्डनं यातु सज्जिते वासवेश्मनि । सा तु वासकसज्जा स्यात्-' इत्युक्त

Loading...

Page Navigation
1 ... 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201