________________
दुर्गा-पुष्पाञ्जलिः उभयतीरगतैः शमितातप
प्रसरणा शरणागतवत्सला ॥५॥ सगणकालियभोगिफणैरिव
प्रकटनीलसरोरुहकोरकैः । परिवृतोदितवल्लवमण्डली
रसिकता सिकताश्रितधीवरा ॥६॥ प्रविततायतसैकतकैतवा
दमरनिम्नगयेव करम्बिता ।
रणं व्याप्तिरनया । शरणागतेपु चरणशरणं संप्राप्तेषु वत्सला वात्सल्यस्नेहभरिता।
६- गणै. सहिताः सगणः, तथाभूताः ये कालिपभोगिन' कृष्णसर्पाः, तेषां फरणैः इव प्रकटा. स्कुटं दृश्यमाणा' नीलसरोरुहाण नीलकमलानां कोरकाः कुड्मलाः यस्यां तथाभूता । 'कलिका कोरक. पुमान्' इत्यमरः । परिवृता तत्तदावश्यकी चर्या समाग्य नदीसंतरणादि मनोविनोदाय वर्तुंलाकारेण संघटिता तटोपकण्ठमलड्कुर्वाणा इति यावत् । उदिता प्रसन्नवदना या वल्लवानां आभीराणां मण्डली, तस्या रसिका परिवृतोदितवल्लवमण्डलीरसिका, तस्या भावः तत्ता । वल्लवसमुदायस्य रस त्यर्थः । सिकतायां वालुकायां आश्रिताः शरणं गता. धीवराः कॅवर्ताः यस्या. सा तथाभूता।।
७- प्रविततं समन्ततो व्याप्तं श्रआयतं दीर्घ च यत् सैकत वालुकाप्रदेशः तस्य कैतवात् व्याजात् अमरनिम्नगया भागीरथ्या करम्विता आश्लिष्टा इव । करम्बः संजातो अस्या इति इतन् । सितासिते हि गङ्गायमुने इति घण्टापथ । प्रयागादन्यत्र च नानयो. कचित् संगम. संभवतीति सुप्रसिद्धं तावत् । परं कविसृष्टिपु मथुरायामपि द्वयोः संगम उत्प्रेक्षित इति द्रष्टव्यम् । अतएव रघुवीकारः
'यस्यावरोधस्तनचन्दनानां
प्रक्षालनाद्वारिविहारकाले। कलिंदकन्या मथुरां गतापि
गगोर्मिसंमतजन्नेव भाति ।।