________________
यमुना-कलकम्
विपुलकूलविकासिगतस्पृहा
दिकमठा कमठावलि संकुला ||७||
नियमितेन्द्रिय कर्मठ मण्डला
चरितसांध्य विधानविकस्वरा ।
करसरोजगृहीतघटस्फुर
"
त्सुकमनीकमनीयतटान्तरा ||८||
इत्येवमवर्णयत् । एवं माघकविरपि रैवतकवर्णने
'एकत्र स्फटिकतटांशुभिन्ननीरा नीलाश्मद्युतिभिदुराम्भसोऽपरत्र ।
कालिन्दीजलजनितश्रियः श्रयन्ते
वैदग्धीमिह सरितः सुरापगाया. ॥
१२५
इति भङ्गयन्तरेण उभयोः संगममुपवरितवान् ।
विपुलं विशालं यत् कूलं तटं तस्मिन् विकाशिन. सुशोभिताः । गतं प्रशान्त स्पृहादिकं लोकैषणारूपं येषां तथाभूताः तेषाम् । विरक्तादिरूपेण वर्गीभूतानां साधूनां मठा आवासाः यस्यां तथाभूता । कमठानां कच्छपाना या आवलि. पक्ति. तया संकुला सङ्कीर्णा । 'कूर्मे कमठकच्छपौ इत्यमर' |
,
- नियमितानि निगृहीतानि इन्द्रियाणि कर्मज्ञानरूपाणि येषां ते नियमितेन्द्रिया । तेषां सयतात्मनां ज्ञानिनामित्याशय । कर्मठानां कर्मशूराणां यन्मण्डलं समुदाय तेन श्रचरितैः यथाविधि संपादितैः । सांध्यविधानविकस्वरा-सध्यायां भवं सान्ध्यं तस्य यत् विधानं विधि तेन विकस्वरा विकाशोन्मुखी 1 यथानियमं सायं प्रात. क्रियमाणेन परमेश्वरोपास्तिरूपेण संध्यावंदनादिकर्मणा प्रसन्नवदनामिवोपलच्यमाणाम् । करौ हस्तौ एव कोमलतया सरोजे कमले ताभ्यां गृहीतेन धृतेन घटेन जलकलशेन स्फुरन्ती शोभामावहन्ती या सुकमनी सुन्दरी तया हेतुभूतया । कमनीयं मनोहरं तदस्य तीरस्य अन्तरं मध्यं यस्याः सा ।