________________
दुर्गा-पुष्पाञ्जलिः अधिजलोच्छितदारवपट्टिका
तलनिविष्टयतीशपरिष्कृता । विकृतिभेदविजृम्भितसंहिता
मधुरिमा धुरि मादकृतां गता ॥३॥ सरससंमिलदुन्मदमाधुरी
प्रचुरमज्जनजर्जरितोमिका । भगवती यमुना वृजिनापहा
विजयते जयतेजनकृत् सताम् ॥१०॥ ॥ इति यमुना-कुलकम् ।।
-जलं अधि इत्यधिजलम् । सामीप्याथै अव्ययीभावः । जलोपकण्ठे उच्छितानां औनत्येन स्थापितानां दारवपट्टिकानां देवदारुप्रभृतिभिःकाष्ठनिर्मितानां पट्टिकानां तलेषु आधारेषु निविष्टः उपविष्ट. यतीशैः मुमुक्षुभिः परिष्कृता विभूषिता । विकृतिभेदाः जटा-मालादिरूपाः तैः । विकृतयस्त्वेवं स्मर्यन्ते
'जटा-माला-दण्डरेखारथध्वजशिखाघनाः ।
क्रममाश्रित्य निर्वृत्ता विकारा अष्ट विश्रुता ।।' इति । विजृम्भिता विभूषिता या संहिता यजुर्वेदादिरूपा तासां मधुरिमा मधुरस्य भाव. । माधुर्यामत्यर्थः । मादकृतां मादं हर्ष कुर्वन्ति इति मादकृतः तेषां मानसोल्लासकराणमित्यर्थः । धुरि गता प्रमुखरूपतां संप्राप्ता ।
१०- सरसं यथा स्यात् तथा सम्मिलन्त्य. गाढमाश्निपत्य., उन्मदा. यौवनोन्मादमधुरा., याः माथुर्यः मथुरानिवासिन्यः योपित , तासां प्रचुरैः यथारुचितैः, मननैः जलस्नानकेलिभिः, जर्जरिताः जीर्णतां गता. ऊर्मिकाः तरगावलयो यस्याः सा तथाभूता। वृजिनं पापमपहन्ति इति वृजिनापहा ज्ञाताजातेभ्यः पापकर्मभ्य. सद्यो मुक्तिदायिनी । भगवती ऐश्वर्यशालिनी, यमुना कलिन्दगिरितनया, सतां सन्मार्गाश्रयिणां जयतेजनं करोति इति जयतेजनकृत् । आशु विजयप्रदा विजयते इति शिवम् ।
।। इति यमुना-कुलकम् ।।