________________
यमुना - कुलकम्
प्रकटिता स्फुटकाल कुशेशय
च्छविसमाऽविसमा प्रतिभासिनी || ३ ||
विकचपङ्कजकोश परिस्रव
न्मधुरसाश्रयणादिव सभ्रमा ।
द्युतिसवर्णतया भ्रमरभ्रमद्
व्रजवधूजवधूत जलान्तरा ||४||
घनपयः परिणामवशादिव
प्रचुरनीलिममज्जिमभिद्रुमैः ।
१२३
सचयनात् इव राशीकरणाद् हेतोः स्फुटं विकसितं यत् कालकुशेशयं कृष्णवर्ण कमलम् । 'सहस्रपत्रं कमलं शतपत्रं कुशेशयम्' इत्यमरः । तस्य या छवि. कान्तिः तत्समा तत्सदृशी । श्रविः छागः मेषो वा । 'अवि नार्वे रवौ मेपे शैले मूषिककम्बले' इति मेदिनी । तद्वत् प्रतिभासते शोभते इति श्रविसमा प्रतिभासिनी । छाग इव कृष्णवर्णेनोल्लसन्ती इति भावः ।
४ - विकचानि विकसितानि यानि पङ्कजानि अरविन्दानि तेषां कोश. कुड्मलैः, परिस्रवतः निष्यन्दमानस्य, मधुरसस्य पुष्परसस्य 'मधु मद्य पुष्परसे इत्यमरः । आश्रयणात् इव संचयकरणादिव हेतोः । सभ्रमा भ्रमेण श्रम्भसां आवर्तेन सहिता । 'आवर्तोऽम्भसां भ्रमः । ' इत्यमरः । द्युतिः कान्तिः तस्याः सवर्णतया साम्येन । द्वयोः कलिन्दकन्यायाः आभीरवधूनाञ्च श्यामवर्णतया इत्यर्थ' । भ्रमरै मधुपश्रेणिभिः हेतुभूताभि । भ्रमरसंपातहेतुनेति यावत् । भ्रमन्त्यः भ्रमरबाधया त्रस्यन्त्य. याः व्रजवध्वः गोपाङ्गनाः, ताभि जवेन वेगेन धूतं कम्पितं जलान्तरं सलिलप्रवाहो यस्याः तथाभूता ।
५ - घनो जलद, स इव यः पयसां अपां परिणामः नीलवर्णत्वप्राप्तिः, तद्वशादिव तस्मादिव कारणात् । यामुनं हि जलं निसर्गत एव कृष्णवर्णाभमिति भावः । प्रचुरे पर्याप्ता या नीलिमा श्यामबर्णबाहुल्यं तत्र मज्जिमभिः कृतस्नानैः । उभयतीरगतैः तटद्वयोपान्तवर्तिभिः द्रुमैः पादपै. शमितं निवारितं आतपस्य प्रस