Book Title: Durgapushpanjali
Author(s): Jinvijay, Gangadhar Dvivedi
Publisher: Rajasthan Puratattvanveshan Mandir

View full book text
Previous | Next

Page 171
________________ यमुना - कुलकम् प्रकटिता स्फुटकाल कुशेशय च्छविसमाऽविसमा प्रतिभासिनी || ३ || विकचपङ्कजकोश परिस्रव न्मधुरसाश्रयणादिव सभ्रमा । द्युतिसवर्णतया भ्रमरभ्रमद् व्रजवधूजवधूत जलान्तरा ||४|| घनपयः परिणामवशादिव प्रचुरनीलिममज्जिमभिद्रुमैः । १२३ सचयनात् इव राशीकरणाद् हेतोः स्फुटं विकसितं यत् कालकुशेशयं कृष्णवर्ण कमलम् । 'सहस्रपत्रं कमलं शतपत्रं कुशेशयम्' इत्यमरः । तस्य या छवि. कान्तिः तत्समा तत्सदृशी । श्रविः छागः मेषो वा । 'अवि नार्वे रवौ मेपे शैले मूषिककम्बले' इति मेदिनी । तद्वत् प्रतिभासते शोभते इति श्रविसमा प्रतिभासिनी । छाग इव कृष्णवर्णेनोल्लसन्ती इति भावः । ४ - विकचानि विकसितानि यानि पङ्कजानि अरविन्दानि तेषां कोश. कुड्मलैः, परिस्रवतः निष्यन्दमानस्य, मधुरसस्य पुष्परसस्य 'मधु मद्य पुष्परसे इत्यमरः । आश्रयणात् इव संचयकरणादिव हेतोः । सभ्रमा भ्रमेण श्रम्भसां आवर्तेन सहिता । 'आवर्तोऽम्भसां भ्रमः । ' इत्यमरः । द्युतिः कान्तिः तस्याः सवर्णतया साम्येन । द्वयोः कलिन्दकन्यायाः आभीरवधूनाञ्च श्यामवर्णतया इत्यर्थ' । भ्रमरै मधुपश्रेणिभिः हेतुभूताभि । भ्रमरसंपातहेतुनेति यावत् । भ्रमन्त्यः भ्रमरबाधया त्रस्यन्त्य. याः व्रजवध्वः गोपाङ्गनाः, ताभि जवेन वेगेन धूतं कम्पितं जलान्तरं सलिलप्रवाहो यस्याः तथाभूता । ५ - घनो जलद, स इव यः पयसां अपां परिणामः नीलवर्णत्वप्राप्तिः, तद्वशादिव तस्मादिव कारणात् । यामुनं हि जलं निसर्गत एव कृष्णवर्णाभमिति भावः । प्रचुरे पर्याप्ता या नीलिमा श्यामबर्णबाहुल्यं तत्र मज्जिमभिः कृतस्नानैः । उभयतीरगतैः तटद्वयोपान्तवर्तिभिः द्रुमैः पादपै. शमितं निवारितं आतपस्य प्रस

Loading...

Page Navigation
1 ... 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201