Book Title: Durgapushpanjali
Author(s): Jinvijay, Gangadhar Dvivedi
Publisher: Rajasthan Puratattvanveshan Mandir

View full book text
Previous | Next

Page 169
________________ यमुना- कुलकम् यमुना - कुलकम् । चिरगृहीतजगत्तमसो रवे - र्जनितया प्रसृतेव तमश्छटा । 1 घनतमालसपत्नसमुच्छल लहरिका हरिकामित गोपिका ॥ १ ॥ 9 यमुना- कुलकम् । १- चिरं चिराय गृहीतं निपीतं जगतो विश्वसर्गस्य तमः श्रन्धकारप्रसरो येन तस्य । रवेर्विशेषणमेतत् । एवंविधस्य भगवतः सप्तसप्तेः जनितया कन्यारूपेण अवतीर्णया | अतएव तमसः घनान्धकारस्य छटा इव प्राग्भार इव, प्रसृता स्रोतोरूपेण परिणता इत्युत्प्रेक्षा व्यज्यते । उक्तञ्च दण्डिना 'मन्ये शते धवं प्रायो नूनमित्येवमादिभिः । उत्प्रेक्षा व्यज्यते शब्दैरिवशब्दोऽपि तादृशः ॥' इति । १२१ घन नीरन्ध्र' यस्तमाल हरितवर्णस्तमालपादपः तस्य सपनत्वेन प्रतिभटतया समुच्छलन्त्य. अम्बुकणैरुत्पतन्त्यः । लर्क्ष्य एव लहरिका. स्वार्थे कन् । तरङ्गसंततयो यस्यां सा, तथाभूता । हरे. यदुवंशमुक्तामणे. कृष्णाख्यधाम्न कामितं हृदयाभिलषितं गोपायति रहस्यवद्रक्षतीति तथाभूता । भगवतो लीलाविलसितस्य आश्रयभूरिति तात्पर्यम् । द्रुतविलम्बितं छन्दः । इत आरभ्य मथुरा-माधुरी पर्यन्त १ - एकवाक्यतापन्नः श्लोकसमुदायः कुलकमित्युच्यते । यथा समन्वय प्रदीपे 'यत्र वाक्यार्थविश्रान्ति: श्लोकेनैकेन जायते । तन्मुक्तकं युगं द्वाभ्यां त्रिभि. स्यातिलकं पुन. ।। चतुर्भिः स्याच्चक्कलक पञ्चभिः कुलकं ततः । महाकुलकमित्यार्याः कथयन्तिः ततः परम् ॥' इति ।

Loading...

Page Navigation
1 ... 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201