________________
यमुना- कुलकम्
यमुना - कुलकम् ।
चिरगृहीतजगत्तमसो रवे - र्जनितया प्रसृतेव तमश्छटा ।
1
घनतमालसपत्नसमुच्छल
लहरिका हरिकामित गोपिका ॥ १ ॥
9
यमुना- कुलकम् ।
१- चिरं चिराय गृहीतं निपीतं जगतो विश्वसर्गस्य तमः श्रन्धकारप्रसरो येन तस्य । रवेर्विशेषणमेतत् । एवंविधस्य भगवतः सप्तसप्तेः जनितया कन्यारूपेण अवतीर्णया | अतएव तमसः घनान्धकारस्य छटा इव प्राग्भार इव, प्रसृता स्रोतोरूपेण परिणता इत्युत्प्रेक्षा व्यज्यते । उक्तञ्च दण्डिना
'मन्ये शते धवं प्रायो नूनमित्येवमादिभिः । उत्प्रेक्षा व्यज्यते शब्दैरिवशब्दोऽपि तादृशः ॥' इति ।
१२१
घन नीरन्ध्र' यस्तमाल हरितवर्णस्तमालपादपः तस्य सपनत्वेन प्रतिभटतया समुच्छलन्त्य. अम्बुकणैरुत्पतन्त्यः । लर्क्ष्य एव लहरिका. स्वार्थे कन् । तरङ्गसंततयो यस्यां सा, तथाभूता । हरे. यदुवंशमुक्तामणे. कृष्णाख्यधाम्न कामितं हृदयाभिलषितं गोपायति रहस्यवद्रक्षतीति तथाभूता । भगवतो लीलाविलसितस्य आश्रयभूरिति तात्पर्यम् । द्रुतविलम्बितं छन्दः । इत आरभ्य मथुरा-माधुरी पर्यन्त
१ - एकवाक्यतापन्नः श्लोकसमुदायः कुलकमित्युच्यते । यथा समन्वय
प्रदीपे
'यत्र वाक्यार्थविश्रान्ति: श्लोकेनैकेन जायते । तन्मुक्तकं युगं द्वाभ्यां त्रिभि. स्यातिलकं पुन. ।। चतुर्भिः स्याच्चक्कलक पञ्चभिः कुलकं ततः । महाकुलकमित्यार्याः कथयन्तिः ततः परम् ॥' इति ।