________________
१२०
दुर्गा-पुष्पाञ्जलिः तचक्रं त्वयि भासतेऽपि वहुधा निश्चक्रमहोपहा यत्वं दीव्यसि तत्तवैष महिमा चित्रायते त्रायिनि ! ॥८॥ ये गोमतीस्तुतिमिमा मधुरां प्रभाते
संकीर्तयेयुरुरुभक्तिरसाधिरूढाः । तेषां कृते सपदि सा शरदिन्दुकान्ति
कीर्तिप्ररोहविभवान् विदधाति तुष्टा ॥६॥ ॥ इति गोमती-महिमा ॥
धवः शिव. तस्मात् । एक अद्वितीयप्रभावं चक्र सुदर्शनाख्यम् । यच्चैवमुपवय॑ते शिशुपालवधे
'तस्यातसीसूनसमानभासो
भ्राम्यन्मयूखावलिमण्डलेन । चक्रेण रेजे यमुनाजलौघः
स्फुरन्महावर्त इवैकवाहुः ॥ अवाग्य अधिगम्य, त्रिभुवनं त्रीनपि लोकान् । स्वास्थ्य आधिव्याधिरहिततया सुखसौभाग्ययुक्तम् । समारोपयत् प्रातिष्ठिपत् । समाङ पूर्वात् रुहधातोय॑न्तात् कर्तरि लड् । त्वयि भवति तत् सुप्रसिद्धं चक्रं जलावर्त. बहुधा नानारूपेण भासते विद्योतते । यत. निश्चक्रं निर्गतं चक्रं यस्या. तथाभूता सती चक्रं विनैवेत्यर्थः । अंहोपहा अंहासि पापानि अपहन्ति तथाभूता त्वं भवती, यत् दीव्यसि भासि, तत् तव भवत्या एव महिमा भूतिप्रकर्प. । हे त्रायिनि ! रक्षापरायणे ! चित्रं आश्चर्य
आचरति इति चित्रायते- आश्चर्य जनयति भवती। अर्द्धर्चादिपाठात् चक्रशब्दस्य द्विलिङ्गत्वेऽपि लक्ष्यानुसारेण लिगनियम इत्यवसेयम् ।
६- ये जना , प्रभाते अरुणोदयवेलायां, उरुभक्तिरसेन हार्दिकेन अनुरागरसेण । अधिरूढाः प्राप्लुताः सन्त., इमां मनापितां गोमतीस्तुति संकीर्तयेयुः कण्ठपाठं पठेयुः । तेषां कृते सा सपदि झटित्येव तुष्टा प्रसन्ना सती । शरदिन्दोः शारदचन्द्रिकाया कान्तिरिव कमनीयं, कीर्ते' यशस, प्ररोहान् अंकुरान् , विभवान् सम्पदश्च विदधाति संपादयति । वसन्ततिलका-वृत्तम् ।
॥ इति गोमती-महिमा ।।