________________
११६
गोमती-महिमा गोमन्ताचलदारिके ! तव तटे तूघल्लतापादपे सद्यो निवृतिमेति भक्तजनता तामैहिकामुष्मिकीम् ।। ६ ।। एतत्तापनतापतप्तमुदकं माभूदितीवान्तिके माद्यत्पल्लवतल्लजद्रुमतती यत्रातपत्रायते । मातः ! शारदचन्द्रमण्डलगलत्पीयूषपूरायिते । शय्योत्थायमजसमाह्निककृते त्वां बाढमभ्यथये ॥ ७॥ एकं चक्रमवाप्य तत्रभवतो दाक्षायणीवल्लभादेवो दैत्यविनाशकस्त्रिभुवने स्वास्थ्यं समारोपयत् ।
अक्षराणां घटना निष्पत्ति. । तन्न्यायेन, अर्थात् लोकप्रसिद्धेन घुणाक्षरन्यायेन । अर्थः प्रयोजनं, सङ्गन्छता संघटतां नाम । अप्रयासोपनत कदाचिदेतदेवं सम्भाव्यतां न पुनः सार्वत्रिकमिति भावः । हे गोमन्ताचलदारिके ! गोमन्ताचलस्य एतन्नाम्ना प्रसिद्धस्य शैलस्य दारिके तनये । उद्यन्त्यः उदयं गच्छन्त्यः प्ररोहन्त्यो वा लताः पादपाश्च यस्मिन् । तथाभूते तव तटे भक्तजनता श्रद्धालुर्लोकः । तां ऐहिकी इह लोकभवां । आमुष्मिकी परलोकभवां च । सद्योनिर्वृति स्नानसमकालमेव संसारिकं सुखं मुक्तिपदश्च । एति अधिगच्छति ।
७- तापनः सहस्ररश्मि. सूर्य., तस्य तापेन ऊष्मणा संतप्तं उष्णं एतत् उदकं पानीय मा भूत् नैव जायताम् । इतीव एवं मत्वैव, माद्यन्ती हर्षोल्लासमधिगच्छन्ती, पल्लवतल्लजानां कोमलकिसलयानां, द्रुमाणां वृक्षाणां च तती पक्ति यत्र यस्याः तीरोपान्ते, आतपत्रायते प्रातपात् त्रायते इत्यातपत्रम् छत्रम् । तदिव आचरति । कूलस्थिताभिक्षश्रेणीभिश्छत्रच्छायामिव तन्वतीमित्याशय । हे मातः ! शारदचन्द्रस्य स्फीतप्रकाशस्य शरत्कालिकस्येन्दो मण्डलात, गलत् स्रवत् यत् पीयूपपूरं अमृतस्य निष्यन्द', तदाकारतां गते । अजस्र निरन्तरं, शय्योत्थाय प्रातःप्रबोधसमयादुत्तरक्षणे एव । आह्निकस्य अह्ना साध्यं आह्निकम् , ठन् । स्नान-सन्ध्या-तर्पणादिसंपादनार्थ त्वां भवतीम् । बाढं अत्यन्तं अभ्यर्थये संप्रार्थये । प्रत्यहं तवतीरमुपाश्रितस्य मम अशेषमाह्निकं संपद्यतामिति भावः ।
८- दैत्यानां असुराण, विनाशक संहारक', देव भगवान् विष्णुः । तत्रभवतः सर्वलोकपूज्यात् दाक्षायणीवल्लभात्-दाक्षायणी पार्वती, तस्या. वल्लभ.