________________
दुर्गा-पुष्पाञ्जलि
अन्तः क्वापि तडागवर्तनतया सिद्धाश्रमं सूयसे मात!मति ! यातभङ्गिविधया नानाकृतिर्जायसे ॥ ४ ॥ रोधोभङ्गिनिवेशनेन कुहचिद्वापीयसे पीयसे क्वाप्युत्तालतटाधराम्बुकलया कूपायसे पूयसे । मातस्तीरसमत्वतः क्वचिदपां गर्वायसे त्रायसे कुत्रापि प्रतनुस्पदेन सरितो नालीयसे गीयसे ॥ ५ ॥ तानासन्नतरानपि क्षितिरुहो याः पातयन्ति क्षणात्तास्वर्थो घुणकीर्णवर्णघटनन्यायेन संगच्छताम् ।
उपकण्ठे विभ्राजमानं चण्डिकायतनं सिद्धाश्रमतया लोके प्रसिद्धमित्यादि पुरावृत्तं चण्डिका-स्तुतौ विवृतं तत एव द्रष्टव्यम् । हे मातः गोमति ! यातस्य गतागतस्य या भङ्गिः रचनाविच्छित्ति', तस्याश्च या विधा प्रकार , तया नानाकृतिः विविधाकाररमणीया जायसे संपद्यसे ।
५- रोधसः तीरस्य 'कूल रोवश्च तीरंच प्रतीरं च तटं त्रिषु ।' इत्यमरः । या भङ्गिः रचना, तस्याः निवेशनेन विन्यासेन कुहचित् कुत्रचित्, वापीयसे वापीमिव आचरसि । वापी इव परं गाम्भीर्य धारयसि इत्यर्थ । वापी नाम जलाशयविशेषः । 'वापी स्नातुमितो गतासि' इति काव्यप्रकाशः । पीयसे जनै.
आस्वाद्यसे च । क्यापि उत्तालं उच्छितं, यत् तटं तीरं, तस्य अधरे तले अम्बुकलया जलसमृद्धथा कूपायसे कूपसदृश आकारं प्रपद्यसे । पूयसे लोकान् पवित्रीकरोषि । हे मात. ! तीरस्य समत्वत., समभागावस्थानात्, क्वचित् अपांजलानाम् । संवन्धसामान्ये पष्टी । गतः भूछिद्रं खातं वा । स इव आचरसि गर्ताकारेण परिणमसि । त्रायसे रक्षा करोपि । कुत्रचित् पदेन जलसन्निवेशेन प्रतनुः विशेषत. कृशशरीरा सती, सरित. नद्या , नाली इव जलनिर्गममार्ग इव आचरसि । गीयसे जनैः प्रशस्यसे च ।
६- याः स्रोतस्विन्यः सरितः, आसन्नतरानपि तीरसश्लिष्टानपि किं पुनरगतानित्यर्थः । तान् सच्छायान् । क्षितिरुह. वृक्षकदम्बकान् । क्षणात् निमेषमात्रादेव, पातयन्ति धराशायिनं कुर्वन्ति । तासु घुणकीर्णवर्णघटनान्यायेन घुणा' काष्टादिभक्षकाः कृमिविशेपा , ते कीर्णा दष्टतया उत्कीर्णा या वर्णानां