________________
गोमती-महिमा
गङ्गा वा यमुना नितान्तविषमां काष्ठां समालम्भितामातस्त्वं तु समाकृतिः खलु यथापूर्वं वरीवर्तसे ॥ २ ॥ या व्यालोलतरङ्गाबाहु विकसन्मुग्धारविन्देक्षणं भौजङ्गी गतिमातनोति परितः साध्वी परा राजते । पीयूषादपि माधुरीमधिकयन्त्यारादुदाराशया साऽस्मत्पातकसातनाय भवतास्रोतस्वती गोमती ॥३॥ कुम्भाकारमुरीकरोषि कुहचित्वाप्यर्धचन्द्राकृति धत्से भूतलमानयष्टिघटनामालम्बसे कुत्रचित् ।
३- येति कर्तृपदम् । व्यालोलाः अतिचञ्चलाः तरङ्गाः कल्लोला एव वाहू यस्मिन् तदिति गतेविशेषणम् । विकसत् यत् मुग्धं सुन्दरं अरविन्दं रक्तोत्पलं तदेव ईक्षणं नयनं यस्मिन् तादृशम् । भुजगो जारः, तस्य इयं भौजङ्गी ताम् । कुलटाजनोचितां गतिं प्रवृत्ति आतनोति रचयति । परितः समन्ततः परा उत्कृष्टा साध्वी सच्चरित्रा कुलवधूरिव राजते शोभते । 'राजृ दीप्तौ' इत्यतः कर्तरि लट् । या हि कुलटा न सा साध्वी भवितुमर्हति इति विरोधाभासो नामात्र अलङ्कार. । तत्परिहारप्रकारस्तु-भुजङ्गः सर्पः, स इव कुटिला वका गति गमनं यस्या सा तथाभूतेत्यर्थाश्रयणात् । एवं परत्र साध्वी मनोहरा इत्यर्थकल्पनाच । उदार कृपामसृणः आशय आकूतं यस्याः सा तथाभूता सती । आरात् समीपतः । पीयूषात् अमृतरसादपि माधुरी जलगतं माधुर्यं अधिकयन्ती अधिकमधिकं वर्धयन्ती । 'तत्करोतीति णिच् । सा स्रोतस्वती वेगवती, गोमती अस्मत्पातकस्य दुरितजातस्य, सातनाय तनूकरणाय, भवतात भूयात् ।
४-कुहचित् कस्मिंचित् स्थले, कुम्भाकारं कुम्भो घट. स इव प्राकार स्वरूपं उरीकरोषि अङ्गीकरोषि । कुम्भसदृशं प्रवहन्ती दृश्यसे इत्यर्थः । क्वापि अर्धचन्द्राकृति अर्धचन्द्रखण्डमिव आकारं धत्से धारयसि । कुत्रचित् भूतलस्य भूमण्डलस्य मानयष्टि. मानदण्डम् । तस्या. घटना आकारं आलम्बसे प्रपद्यसे । क्वापि अन्त. स्वक्रोडे तडागस्य वर्तनतया संस्थापकतया सिद्धाश्रमं सिद्ध. सद्य. सिद्धिप्रदो य आश्रमः तम् । सिद्धिभूमि सुयसे प्रकटीकरोषि । अस्या