________________
११६
दुर्गा-पुष्पाञ्जलिः
गोमती-महिमा। मातोमति ! तावकीनपयसां पूरेषु मज्जन्ति ये तेऽन्ते दिव्यविभूतिमतिसुभगस्वलॊकसीमान्तरे । वातान्दोलितसिद्धसिन्धुलहरीसंपर्कसान्द्रीभवन् मन्दारद्रुमपुष्पगन्धमधुरं प्रासादमध्यासते ॥१॥
आस्तां कालकरालकल्मपभयाद् भीतेव कार्यं गता मध्येपात्रमुढसकतभराकीर्णाऽवशीर्णामृता ।
गोमती-महिमा । हे मातः ! गोमति ! तावकीनपयसां त्वदीयसलिलानां पूरेषु प्रवाहेषु ये मन्जन्ति स्नानमाचरन्ति । 'टुमस्जो शुद्धौ' इत्यतः कर्तरि लट् । ते अन्ते देहपातानन्तरम् । दिवि भवाः दिव्याः, स्वर्गलोकभवाः या विभूतयः ऐश्वर्याणि, तासां च या सूतिः प्रसवः तया सुभगो रमणीय यः स्वर्लोक. देवभूमि. तस्य सीमायाः अन्तरे मध्ये । वातेन पवनेन, आन्दोलिताः कम्पिता', याः सिद्धसिन्धो. वियद्गायाः, लहर्यः तासां संपर्केण सान्द्रीभवन् घनीभावं गच्छन् । यो मन्दारद्रमः पारिजातवृक्ष', तस्य पुष्पगन्धेन कुसुमसोरभेण, मधुर हृद्य, प्रासाद हाय अध्यासते अधितिष्ठन्ति । तवायं अपूर्वः कोऽपि महिमा इति भावः । । शार्दूलविक्रीडितं छन्दः।
२- कालस्य अन्तकस्य यत् करालं भयानक कल्मषं पापं तस्य भयात् । भीता इव बस्तेव, काय कृशस्य. भावः तम् । दौर्वत्यं गता आस्ताम् तिष्ठतु तावत् । मध्येपात्रं जलाधारभूमेरन्तराले उदूढ' राशीभूत' । उत्पूर्वात् 'वह प्रापणे' इति क' | यः सैकतस्य वालुकायाः भरः अतिशयः, तेन आकीर्णा समन्ततो व्याप्ता । पाइपूर्वात् किरतेः क्तः, निष्ठानत्वञ्च । अतएव अवशीर्ण शुष्कतां गत अमृतं जलं यस्या. सा । गङ्गा भागीरथी, यमुना कलिन्दुतनया वा । नितान्तविषमां अतितरां शोचनीयां, काष्टां दशां समालम्भिता प्रापिता । समाड् पूर्वात् लभतेय॑न्तात् क्तः । हे मातः ! जननि । त्व भवती तु, समा समाना, वैपम्यरहिता आकृति. स्वरूपं यस्याः तथा भूता खलु । यथापूर्व प्रागिक अधुनापि, वरीवर्तसे अवस्थितिं भजसे ।