________________
सरयू-सुधा निशि शशिकरयोगात्सकतेऽप्यम्वुसत्तां सपदि विरचयन्ती साऽपगावैजयन्ती ।। ७ ।। . अंहांसि नाशयन्ती घटयन्ती सकलसौख्यजालानि । श्रेयांसि प्रथयन्ती सरयूः साकेतसंगता पातु ॥८॥ य इमकं सरयूस्तवकं पठेन्निविडभक्तिरसाप्लुतमानसः । स खलु तत्कृपया सुखमेधतेऽनुगतपुत्रकलत्रसमृद्धिभाक् ॥६॥
॥ इति सरयू-सुधा॥
प्रन्थिर्वा । व्रततीनां लतानां ततिः विस्तारः 'ततं व्याप्ते विस्तृते च' इति मेदिनी । तया निबद्धः परिवेष्टितो, य आरामः उपवनम्, तस्य शोभां सुषमां श्रयन्ती दधती। निशि रात्री, शशिकराणा चन्द्रकिरणानां, योगात् संपर्कात्, सकते वालुकामये प्रदेशे अपि 'सैकत सिकतामयम्' इत्यमरः । अम्बुसत्तां जलावस्थानभ्रमं सपदि सद्यः विरचयन्ती घटयन्ती। सा लोकप्रसिद्धा आपगानां नदीनां वैजयन्ती पताका जयति सर्वोत्कर्षेण वर्तते । मालिनी छन्दः ।
८-श्रहांसि कल्मषानि, नाशयन्ती प्रक्षालयन्ती । सकलानि समग्राणि यानि सौख्यानां अन्तःकरणानुकूलतया वेदनीयानां, जालानि वृन्दानि, तानि घटयन्ती संपादयन्ती। श्रेयांसि मङ्गलानि प्रथयन्ती विस्तारयन्ती । साकेते रामस्य राजधान्यां अयोध्यायां, संगता समायाता, सरयू पातु अवतु । 'पा रक्षणे' कर्तरि लोट । श्रार्या-वृत्तम् । __-य. इमकं इमम् । 'अव्ययसर्वनाम्नामित्यकच ' । निबिड. सान्द्र. यो भक्तिरसः श्रद्धापीयूषम्, तेन आप्लुतं आHकृतं मानसं यस्य तथाभूत. सन् । सरवाः स्तवकं स्तवम् पूर्ववदकच् । पठेत् पाठं कुर्यात् । स खलु तस्या. कृपया, अनुगतपुनकलत्रसमृद्धिभाक् अनुगताः आज्ञावर्तिनः, ये पुत्राः प्रात्मजा., कलत्राणि गृहिण्यश्च, समृद्धिः स्फारमैश्वर्यम् । एताः भजते इति तथाविध. सन् । सुखं यथा स्यात् तथा एधते वृद्धिमुपगच्छति ।
।। इति सरयू-सुधा ।।