Book Title: Durgapushpanjali
Author(s): Jinvijay, Gangadhar Dvivedi
Publisher: Rajasthan Puratattvanveshan Mandir

View full book text
Previous | Next

Page 156
________________ १०५ दुर्गा-पुष्पाञ्जलिः जय जय पितवनकेलिपरायण, जय जय गौरीविभ्रमगेह ॥४॥ जय जय गाङ्गतरङ्गलुलितजट, जय जय मङ्गलपूरसमुद्र । जय जय बोधविजृम्भणकारण, जय जय मानसपूर्ति विनिद्र ॥ ५ ॥ जय जय दयातरङ्गिन्तलोचन, जय जय चित्रचरित्रपवित्र । जय जय शब्दब्रह्मविकाशक, जय जय किल्विपतापवित्र ॥ ६॥ 'श्मशानं स्यापितृवनम्' इत्यमरः । तत्र या केलि. क्रीडाव्यापार तस्यां परायणः प्रसक्तः । गौर्याः पार्वत्याः विभ्रमाणां शृङ्गारचेष्टितानाम् गेहः सदनम् । ५- गाङ्गैः सुरसरित्संभवैः तरङ्गैः वीचिभिः लुलिता इतस्तत आर्द्राभूता जटा केशसमूहो यस्य तथाभूतः । मङ्गलपूराणां माङ्गलिकानां अपां समुद्रः सागरः । वोधः ज्ञानम् तस्य यत् विजृम्भणं स्फारोल्लास तस्य कारणं निदानभूतम् ) मनसि भवं मानसं मनोवाञ्छितं तस्य पूर्ती यथायथं संपादने विनिद्रः विगतनिद्रः प्रबुद्ध इति यावत् । ६- दयया वात्सल्यरसपूरेण तरङ्गिते सिक्के लोचने नयने यस्य तादृशः । चित्रै. विस्मयकरैः, चरित्रैः लोकोद्दिधीर्पया यथावसरमनुष्ठितः तैस्तैापारजाते, पवित्र पूतम् । शब्दब्रह्मणः अकारादि ज्ञान्तस्य वर्णराशे', विकाशकम् प्रकाशकभूमिम् । तथा च पठ्यते वाक्यपदीये 'अनादिनिधनं ब्रह्मशब्दतत्त्वं यदक्षरम् । विवर्ततेऽर्थभावेन प्रक्रिया जगतो यत' ।।' इति । किल्विषं पापमेव संतापजनकत्वात् तापः तस्य धवित्रम् । धूयते अनेन इति धवित्रं व्यजनम् ।

Loading...

Page Navigation
1 ... 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201