________________
१०५
दुर्गा-पुष्पाञ्जलिः
जय जय पितवनकेलिपरायण,
जय जय गौरीविभ्रमगेह ॥४॥ जय जय गाङ्गतरङ्गलुलितजट,
जय जय मङ्गलपूरसमुद्र । जय जय बोधविजृम्भणकारण,
जय जय मानसपूर्ति विनिद्र ॥ ५ ॥ जय जय दयातरङ्गिन्तलोचन,
जय जय चित्रचरित्रपवित्र । जय जय शब्दब्रह्मविकाशक,
जय जय किल्विपतापवित्र ॥ ६॥
'श्मशानं स्यापितृवनम्' इत्यमरः । तत्र या केलि. क्रीडाव्यापार तस्यां परायणः प्रसक्तः । गौर्याः पार्वत्याः विभ्रमाणां शृङ्गारचेष्टितानाम् गेहः सदनम् ।
५- गाङ्गैः सुरसरित्संभवैः तरङ्गैः वीचिभिः लुलिता इतस्तत आर्द्राभूता जटा केशसमूहो यस्य तथाभूतः । मङ्गलपूराणां माङ्गलिकानां अपां समुद्रः सागरः । वोधः ज्ञानम् तस्य यत् विजृम्भणं स्फारोल्लास तस्य कारणं निदानभूतम् ) मनसि भवं मानसं मनोवाञ्छितं तस्य पूर्ती यथायथं संपादने विनिद्रः विगतनिद्रः प्रबुद्ध इति यावत् ।
६- दयया वात्सल्यरसपूरेण तरङ्गिते सिक्के लोचने नयने यस्य तादृशः । चित्रै. विस्मयकरैः, चरित्रैः लोकोद्दिधीर्पया यथावसरमनुष्ठितः तैस्तैापारजाते, पवित्र पूतम् । शब्दब्रह्मणः अकारादि ज्ञान्तस्य वर्णराशे', विकाशकम् प्रकाशकभूमिम् । तथा च पठ्यते वाक्यपदीये
'अनादिनिधनं ब्रह्मशब्दतत्त्वं यदक्षरम् ।
विवर्ततेऽर्थभावेन प्रक्रिया जगतो यत' ।।' इति । किल्विषं पापमेव संतापजनकत्वात् तापः तस्य धवित्रम् । धूयते अनेन इति धवित्रं व्यजनम् ।