Book Title: Durgapushpanjali
Author(s): Jinvijay, Gangadhar Dvivedi
Publisher: Rajasthan Puratattvanveshan Mandir

View full book text
Previous | Next

Page 161
________________ सरयू-सुधा ११३ गङ्गा तिष्यविचालिता रविसुता कृष्णप्रभावाश्रिता क्षुद्रा गोमतिका परास्तु सरितः प्रायो यमाशां गताः। त्वं त्वाकल्पनिवेशभासुरकला पूर्णेन्दुविम्बोज्ज्वला सौम्यां संस्थितिमातनोषि जगतां सौभाग्यसंपत्तये ॥ ४ ॥ मज्जन्नाकनितम्बिनी-स्तनतटाभोगस्खलत्कुङ्कुमक्षोदामोदपरम्परापरिमिलत्कल्लोलमालावृते । ४-गङ्गा सुरदीर्घिका । तिष्येन कलिकालेन । 'तिष्यः पुष्ये कलियुगे' इत्यमरः । विचालिता विशेषतोऽन्यथाभावं प्रापिता । उक्तश्च पौराणिकैः 'कलौ पञ्चसहस्राणि विष्णुस्तिष्ठति मेदिनीम् । तदर्धं जाह्नवीतोयं तदर्धं ग्रामदेवताः ॥ इति । रविसुता यमुना । कृष्णस्य भगवतः प्रभावं सामर्थ्य प्राश्रिता प्रपन्ना । कृष्णैकवशंवदा इत्यर्थ । गोमतिका गोमतीनाम्नी सरित् । अल्पार्थे कन् । क्षुद्रा दुर्बलाड़ी। आसामेव तिसृणां उत्तरभारते अवस्थानात् । पराः आभ्यः अतिरिच्यमानाः, सरितः नद्य , यमाशां' दक्षिणां दिशं गताः सङ्गताः । त्वम् भवती एव एका । आकल्पनिवेशभासुरकला-कल्पान्तमभिव्याप्य वर्तते इत्याकल्पं 'आड्मर्यादाभिविध्यो' (पा. सू २. १. १३) इति समासः । तादृशं यो निवेश. सन्निवेश । तेन भासुरा दीप्तिशीला कला उदयो यस्या. तथाभूता । पूर्णेन्दुः राकासुधाकरः तस्य विम्बवत् किरणजालवत् उज्ज्वला शुभ्रा । जगतां लोकानां सौभाग्यस्य सुभगत्वस्य या संपत्ति प्राचुर्यम् तस्यै । सौम्यां स्वभावमधुराम् । संस्थिति अवस्थानम् । आतनोषि विस्तारयसि । प्राड् पूर्वात् तनोतेः कर्तरि लट् । ५-मजन्त्य स्नानं कुर्वत्यः, याः नाकस्य स्वर्लोकस्य, नितम्विन्यः देवाङ्गनाः, तासां स्तनतटस्य कुचकुड्मलस्य य आभोगः परिपूर्णता, तस्मात् स्खलत् निर्यत् यः कुड् कुमस्य केशरस्य क्षोदः चूर्णम् । तस्य आमोदपरम्पराभिः सुरभिसंतान. परिमिलन्त्य परस्परं सम्पर्कमनुभवन्त्यः याः कल्लोलमालाः तरङ्गाणां ततय. । ताभिः श्रावृते समन्तात् परिवेष्ठिते । हे मातः ! ब्रह्मण परिमेष्ठिनः

Loading...

Page Navigation
1 ... 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201