Book Title: Durgapushpanjali
Author(s): Jinvijay, Gangadhar Dvivedi
Publisher: Rajasthan Puratattvanveshan Mandir

View full book text
Previous | Next

Page 164
________________ ११६ दुर्गा-पुष्पाञ्जलिः गोमती-महिमा। मातोमति ! तावकीनपयसां पूरेषु मज्जन्ति ये तेऽन्ते दिव्यविभूतिमतिसुभगस्वलॊकसीमान्तरे । वातान्दोलितसिद्धसिन्धुलहरीसंपर्कसान्द्रीभवन् मन्दारद्रुमपुष्पगन्धमधुरं प्रासादमध्यासते ॥१॥ आस्तां कालकरालकल्मपभयाद् भीतेव कार्यं गता मध्येपात्रमुढसकतभराकीर्णाऽवशीर्णामृता । गोमती-महिमा । हे मातः ! गोमति ! तावकीनपयसां त्वदीयसलिलानां पूरेषु प्रवाहेषु ये मन्जन्ति स्नानमाचरन्ति । 'टुमस्जो शुद्धौ' इत्यतः कर्तरि लट् । ते अन्ते देहपातानन्तरम् । दिवि भवाः दिव्याः, स्वर्गलोकभवाः या विभूतयः ऐश्वर्याणि, तासां च या सूतिः प्रसवः तया सुभगो रमणीय यः स्वर्लोक. देवभूमि. तस्य सीमायाः अन्तरे मध्ये । वातेन पवनेन, आन्दोलिताः कम्पिता', याः सिद्धसिन्धो. वियद्गायाः, लहर्यः तासां संपर्केण सान्द्रीभवन् घनीभावं गच्छन् । यो मन्दारद्रमः पारिजातवृक्ष', तस्य पुष्पगन्धेन कुसुमसोरभेण, मधुर हृद्य, प्रासाद हाय अध्यासते अधितिष्ठन्ति । तवायं अपूर्वः कोऽपि महिमा इति भावः । । शार्दूलविक्रीडितं छन्दः। २- कालस्य अन्तकस्य यत् करालं भयानक कल्मषं पापं तस्य भयात् । भीता इव बस्तेव, काय कृशस्य. भावः तम् । दौर्वत्यं गता आस्ताम् तिष्ठतु तावत् । मध्येपात्रं जलाधारभूमेरन्तराले उदूढ' राशीभूत' । उत्पूर्वात् 'वह प्रापणे' इति क' | यः सैकतस्य वालुकायाः भरः अतिशयः, तेन आकीर्णा समन्ततो व्याप्ता । पाइपूर्वात् किरतेः क्तः, निष्ठानत्वञ्च । अतएव अवशीर्ण शुष्कतां गत अमृतं जलं यस्या. सा । गङ्गा भागीरथी, यमुना कलिन्दुतनया वा । नितान्तविषमां अतितरां शोचनीयां, काष्टां दशां समालम्भिता प्रापिता । समाड् पूर्वात् लभतेय॑न्तात् क्तः । हे मातः ! जननि । त्व भवती तु, समा समाना, वैपम्यरहिता आकृति. स्वरूपं यस्याः तथा भूता खलु । यथापूर्व प्रागिक अधुनापि, वरीवर्तसे अवस्थितिं भजसे ।

Loading...

Page Navigation
1 ... 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201