Book Title: Durgapushpanjali
Author(s): Jinvijay, Gangadhar Dvivedi
Publisher: Rajasthan Puratattvanveshan Mandir
View full book text
________________
११४
दुर्गा-पुष्पाञ्जलिः मातब्रह्मकमण्डलूदकलसत्सन्मानसोल्लासिनि ! त्वद्वारा निचयेन मामकमलस्तोमोऽयमुन्मूल्यताम् ॥ ५ ॥ इष्टान् भोगान् घटयितुमिवागाधलक्ष्मी पराया वातारब्धस्फुरितलहरीहस्तमावर्तयन्ती । गन्धद्रव्यच्छुरणविकसद्वारिवासो वसाना सा नः शीघ्र हरतु सरयूः सर्वपापप्ररोहान् ॥ ६ ॥ जयति विपुलपात्रप्रान्तसंरूढगुल्मव्रततिततिनिवद्धारामशोभा श्रयन्ती ।
कमण्डलोः, कस्य जलस्य मण्ड स्तरं लाति लभते वा इति कमण्डलुः । कुण्डीभूतो जलपात्रविशेष. । य एकान्तत इदानी चतुर्थाश्रमिणां स्नेहपात्रीभूतः । तस्य उदकेन जलेन लसन् सतां मानसस्य उल्लासः आह्नादः अस्ति अस्यामिति तत्संबोधनम् । त्वद्वारा अपां, निचयेन सलिलराशिना । अयं मामकः मदीयः मलस्तोमः बाह्याभ्यन्तरो मलपटलः । उन्मूल्यताम् निरवशेपं विधीयताम् । उत्पूर्वकात् मूलयतेः कर्मणि लोट् ।
६-या इष्टान् मनसः प्रियान् । भोगान् ऐहिकामुष्मिकान् सौख्योपभोगान् । घटयितुं सम्पादयितुमिव । परार्ध्या श्रेष्ठतमा । अगाधा अननुमेया च लक्ष्मीः साक्षान्महालक्ष्मीरूपेणाविभूतेत्यर्थः । वातेन मरुता प्रारब्धाः प्रवर्तिताः, याः स्फुरिताः चञ्चलाः लहर्य कल्लोला एव हस्ताः यस्मिन्निति क्रियाविशेषणम् । तद् यथा स्यात् तथा आवर्तयन्ती अम्भसां भ्रमणं प्रवर्तयन्ती । गन्धद्रव्येण चन्दनादिसुगन्धद्रव्यजातेन यत् छुरणं सम्पर्कः, तेन विकसन् बहिरुल्लसन् यो वारिवासः सलिलरूपं परिधान वस्त्रम् , तस्मिन् वसाना वसनमाचरन्ती । 'वस आच्छादने' इत्यतः कर्तरि शानच् । सा सुप्रसिद्धा सरयू । सर्वान् नाताज्ञातान् ! पापप्ररोहान् पापाकुरान् । शीघ्र द्रुतं, हरतु दूरीकरोतु । ७- विपुलं विशालं यत् पात्रं तीरद्वयान्तरम् । यथाह विश्वः
___ 'पानं तु भाजने योग्ये पात्रं तीरद्वयान्तरे ।
पात्रं स वादौ पर्णे च राजमन्त्रिणि चेप्यते' ।। इति । तस्य प्रान्ते प्रदेशे, संस्ढः प्ररोहं गतो, यो गुल्म' अप्रकाण्डः स्तम्बः मूल

Page Navigation
1 ... 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201