________________
८८
दुर्गा-पुष्पाञ्जलिः या चण्डी मधुकैटभप्रमथिनी या माहिपोन्मूलिनी या धूम्रक्षणचण्डमुण्डदलिनी या रक्तवीजाशिनी । शक्तिः शुम्भनिशुम्भदैत्यदलिनी या सिद्धिलक्ष्मीः परा सा दुर्गा नवकोटिमूर्तिमहिताऽस्मान् पातु सर्वेश्वरी ॥१०॥
॥ इति नवदुर्गा-स्तवः ॥
१०-या परब्रह्मस्वरूपिणी चण्डी कोपनशीला । भयजनककोपार्थकात् 'चडि कोपे' इत्यत. पचाद्यचि 'पिगौरादिभ्यश्च' इति डीप । उक्तञ्च भुवनेश्वरीसंहितायाम्
'यद्याद् वाति वातोऽयं सूर्यो भीत्या च गच्छति ।
इन्द्राग्निमृत्यवस्तद्वत् सा देवी चण्डिका स्मृता ॥” इति । तत एव रुद्राध्याय्यामपि 'नमस्ते रुद्रमन्यव-' इत्यारम्भमन्त्रे प्रथमं मन्यव ग्य प्रणतिः प्रयुज्यमाना साधु सङ्गच्छते । लोकेऽपि चण्डभानु. चण्डवात इत्येवमादिप्रयोगेपु भयजनककोपार्थकत्वं सुप्रसिद्धमेव । किञ्च
'भीपास्माद्वात. पवते भीषोदेति सूर्य ।। ___ भीपास्मादग्निश्चेन्द्रश्च मृत्युर्धावति पञ्चमः ।।' इत्यादि श्रुतिरप्यत्रमंवादिनीति द्रष्टव्यम् । मधुकैटभवधप्रधानं श्रीमहाकालीचरितं सप्तशत्या. प्रथमाध्यायरूपं प्रथमचरित्रम् । एवं द्वितीयाध्यायमारभ्य चतुर्थाध्यायान्तं महिपासुरवधाख्यं श्रीमहालक्ष्मीचरितं मध्यमचरित्रम् । ततः पञ्चमादारभ्य त्रयोदशाध्यायान्तं शुम्भ-निशुम्भवधात्मकं श्रीमहासरस्वतीचरितमुत्तरचरित्रम् । अनयैव च धूम्रक्षणस्य, चण्डमुण्डयो. रक्तवीजस्य च वधः कृत इत्येपामन्तर्भाव. उत्तरचरित्रे एव द्रष्टव्यः । विस्तरस्त्वस्मत्प्रपितामहानां सप्तशती-सर्वस्वत आकलनीयः ।
या चण्डी परा अनुत्तरा, सिद्धिलक्ष्मी सिद्वेः सौभाग्यभूता श्रीरूपेणावस्थिता, सा नवकोटिभि मूर्तिभिः स्वरूपवितानभूतैरङ्गशक्तिभि. महिता पूजिता, सर्वेश्वरी सर्वस्यापि चराचरस्य स्वामिनी अस्मान् पातु अवतु ।
।। इति नवदुर्गा-स्तव.।।