________________
अष्टमूर्ति-स्तवः अष्टमूर्ति-स्तवः।
यः पार्थिवं लिङ्गमुपेत्य शाल
___ ग्रामो घटोऽश्वत्थमुखो भवँश्च । नानाविधान् मूर्तगुणान् प्रपेदे
तमष्टमूर्तिशरणं प्रपद्ये ॥१॥
पञ्चदश-स्तवः।
१-य. पृथिव्या इदं पार्थिवं, मृन्मयं लिङ्ग उपेत्य, शालग्रामः शालानां वृक्षाणां ग्रामः यस्मिन् सः । एतन्नाम्ना प्रसिद्धः पर्वतविशेषः, यदुद्भताः श्यामवर्णशिलाः विष्णुप्रतिमात्वेन पूज्यन्ते । चटः वटवृक्ष., अश्वत्थमुखः पिप्पलवृक्षप्रधानश्च भवन अर्थात् शैलूष इव तत्तद्भमिकामधितिष्ठन् । नानाविधान असंख्येयगुणधर्मान् , मूर्तगुणान् पृथिव्यादिभूतपञ्चकधर्मान् , प्रपेदे आसेदे, तं अष्टमूर्ति अष्टौ भूम्यादय. मूर्तयो यस्य स तम् । शरणं प्रपद्य शरणमापन्नोऽस्मि । शिवस्य अष्टमूर्तयश्चैवं संख्यायन्ते
'क्षितिर्जल तथा तेजो वायुराकाशमेव च ।
यष्टार्कश्च तथा चन्द्रो मूर्तयोऽष्टौ पिनाकिनः ।। इति । इहेदमवधेयम्
तदिति सर्वनाम्न स्त्रीत्वेऽपि अष्टमूर्तिरिति समानम् । अष्टमूर्तिरिति प्रसिद्ध शिवशक्तिनाम । तथा च रघुवंशकार.-'अवेहि मां किङ्करमष्टमूर्ते' इति । 'अष्टमूर्तिरजा जैत्री' इति ब्रह्माण्डपुराणम् । उपबृहणं तु 'त्वमर्कस्त्वं सोम स्त्वमसि पवनस्त्वं हुतवह.' इति शिवमहिम्नपद्यादौ । तथा 'मनस्त्वं व्योम त्व मरुदसि मरुत्सारथिरसि' इति सौन्दर्यलादी च द्रष्टव्यम् । यावद्द वताविशेषाणां समष्टि. परमेश्वर' । अभियुक्तानां यत्र देवतापदेन व्यवहारः सः श्रोतः स्मार्तो वा देवतापदार्थ एतस्माद् भिन्न । विस्तरस्तु निरुक्त-वृहद्दवतादिसन्दर्भतोऽवधेय. ।