________________
दुर्गा-पुष्पाञ्जलिः योऽम्मासि पावित्र्यगुणस्य सीमा
मासादयंस्तीर्थ परंपराभिः। एतां त्रिलोकी शतधा पुनीते
तमष्टमूर्ति शरणं प्रपद्ये ॥२॥ य आश्रयात् त्रित्वमुपागतोऽपि
ता त्रयीमन्त्रगुणेन भृयः । चराचराधारतयात्मभूत
स्तमष्टमूर्ति शरणं प्रपद्ये ॥३॥ यो योगिनां योगविभूतिसिद्धय ।।
समाधिसिद्धान्त-पथाधिरूढः ।
२-यः अम्भांसि आसादयन् , जलमूर्त्या स्फुरन् । तीर्थं नाम नद्यादेवतरणभूः पवित्र स्थानम् । तस्य परंपराभि. समूहै. पावित्र्यगुणस्य पवित्रतारूपस्योत्कर्पस्य सीमां
आसादयन् एतां त्रिलोकी त्रयाणां लोकानां समाहारः, ताम् । 'तद्धितार्थोत्तरपदसमाहारे च' (पा.सू २.१.५१) इति द्विगु.। 'अकारान्तोत्तरपदो द्विगुःस्त्रियामिष्ट.' इति भाप्यकारेप्ट्या स्त्रीत्वम् । 'द्विगोः' (पा सू ४.१.२१) इति डीप् च । शतधा अनेकप्रकारैः पुनीते पवित्रयति । 'पू पवने' इत्यत कर्तरि लट् । ___३-य. आश्रयात् आधारगौरवात् त्रित्वं सत्वरजस्तमोरूपं उपागतः प्राप्तः सन् , त्रयीमन्त्रगुणेन त्रय्या ये मन्त्राः तेषां गुणेन उत्कांधानरूपेण पुन. त्रेता, दक्षिणाग्नि-गाईपत्य-आवहनीयरूपेण समुदितः । चराचरस्य स्थावरजङ्गमात्मकस्य जगतः, आधारतया अधिकरणतया, आत्मभूत. अनलरूपेण अन्त स्थितः, तं अप्टमूर्ति शिवं शरणं प्रपद्य श्रये ।
४-य. योगिनां योगयुक्तात्मनाम् । योगः प्राणसंयमनात्मक. संप्रज्ञातासंप्रज्ञातलक्षणः क्रियाविशेप. । तस्य विभूतेमहत ऐश्वर्यस्य, सिद्ध्यै साधनार्थ । समाधिः 'तदेवार्थमात्रनिर्भासं स्वरूपशून्यमिव समाधिः' इत्युक्तरूपः, स एव सिद्धिप्रदत्वात् सिद्धान्तपथः सिद्धान्तभूतो मार्गः, तस्मिन् अधिरूढः उपारूढः ।