________________
अष्टमूर्ति-रतवः चतुर्विधप्राणि-निकायमूल
स्तमष्टमूर्ति शरणं प्रपद्ये ॥४॥ योऽनन्तखस्यापि गुरूगरीया
नोमित्यहो व्यस्तसमस्तरीत्या । 'खं ब्रह्म' पाठेन यजुष्ट्वमाप्त
स्तमष्टमूर्ति शरणं प्रपद्ये ॥१॥ यो देवपौरोगवतां प्रयातः
.. सूर्याश्रयात् तृप्तिकरः पितृणाम् । आप्यायकः सर्वमहौषधीनां
तमष्टमूर्ति शरणं प्रपद्य ॥६॥
चतुर्विधानां अण्डजादिभेदभिन्नानां प्राणिनां शरीरिणां निकायस्य सङ्घस्य मूलं आदिकारणम् । शेपं पूर्ववदेव योजनीयम् ।
५-अहो! य' अनन्तस्य अपरिमेयस्य, खस्य शून्याकृतेराकाशस्य । व्यस्तसमस्तरीत्या व्यस्तेन अकार-उकार-मकारात्मकेन, इच्छा-ज्ञान-क्रियाप्रतिपादकेन प्रणवान्त पातिना वर्णसङ्घातेन, समस्तेन अवतीति ओमिति पदेन ब्रह्म-विष्णु-रुद्रात्मकतामधिशयान । गरीयान् प्रशस्यमहिमा । गुरु सर्वानुग्राहक । 'ख ब्रह्म' इति चत्वारिंशदध्यायात्मिकायाः शुक्लयजुसंहिताया उपसंहारमत्र , तस्य पाठेन यजुष्ट्वं प्राप्तः याजुषमहिमां संप्रतिपन्न । अन्यत् पूर्ववत् ।
६-यः देवानां पौरोगवतां पुरोऽग्रे गच्छति इति पुरोगः गमेर्डप्रत्यय' । तस्य भाव. पौरोगवता, ताम् । प्रधानत्वरूपां पुरोगामितां भजन , सूर्याश्रयात् सहस्रकिरणस्य संपर्कात् , पितृणां मरीचिप्रमुखानां तृप्तिकर. तर्पण-श्राद्धादिकर्मणा संतोषाधायकः । सर्वमहौषधीनां सर्वाः सहदेवी-शङ्खपुष्पीप्रभृतयः देवस्नानद्रव्यभूता अष्ट महौषधयः, अन्याश्च वनस्पतयः । तासां आप्यायक' तर्पकतया प्रीतिकरः । इतरत् प्राग्वदेव योजनीयम् ।