________________
दुर्गापुष्पाञ्जलिः य उष्णताद्योतखगर्दकेन्द्र
मेकायनं मुक्तिपथोन्मुखानाम् । धामय॑जुःसाममहोदयानां
तमष्टमूर्ति शिवमेकमीडे ॥७॥ आत्मा य एको यत एव विष्वग्
ब्रह्माण्डवैचित्र्यविकाशभूमा । तमःप्रकाशादिविसर्गबीज
तमष्टमूर्ति सहशक्तिमीडे ॥८॥ तर्काग्नितत्त्वनिलयं विलयं भ्रमाणा
मानन्दसिन्धुसदनं कदनं कुसृष्टेः ।
७-यः उष्णताया ऊष्मण , द्योतस्य आतपरूपस्य प्रकाशस्य । खगस्य चन्द्रादिनवग्रहमण्डलस्य, ऋक्षस्य अश्विन्यादेर्नक्षत्रवृन्दस्य च केन्द्र मध्यमणिः । मुक्तिपथोन्मुखानां सायुज्यसामी'यादिचतुर्विधं मुक्तिसोपानमारुरुक्ष णां, एकायन एकमयनं विपयो यस्य तत्, एकं गन्तव्यस्थानम् । त्रयीशरीरघटकाः ऋग्यजुःसामान एव महोदया उत्कर्परूपमहिमाभृतः । तेपां धाम पदम् । एक अद्वितीयं शिवं पार्वतीपति ईडे-स्तुवे ।
- ८-य एक केवल. आत्मा आत्मस्वरूपेण सर्वत्र आततः । यत एव यत्सकाशादेव, विष्वमञ्चतीति विष्वक् सर्वत., ब्रह्माण्डवैचित्र्यस्य, पाश्वर्यभूमेरस्याः ब्रह्माण्डमाण्डपरिगतायाः वैचित्रीपरंपराया., विकाशस्य वहिरुल्लासस्य भूमा अन्तर्यामित्वेनावस्थितः । यश्च तमस. प्रकाशादेश्च विश्वान्त क्रोडीकृतस्य यावद् वस्तुसंभारस्य, यो विसर्ग' अभिव्यक्तिरूपो बहिरुन्मेपः, तस्य वीज आदिकारणम् । अन्यत् पूर्ववत् । ___-'अड्वानां वामतो गतिरिति' नियमात् तर्काग्निशब्दाभ्यामिह पटत्रिंशतो ग्रहणमवसीयते । तथाच शैवदर्शनप्रपञ्चितस्य पत्रिंशत्तत्त्वप्रतिपाद्यस्य शिवादिधरण्यन्तस्य तत्त्वसमूहस्य परामर्शः । पट-त्रिंशत्तत्त्वानां निलयं आधार