Book Title: Durgapushpanjali
Author(s): Jinvijay, Gangadhar Dvivedi
Publisher: Rajasthan Puratattvanveshan Mandir

View full book text
Previous | Next

Page 153
________________ हरिहराष्टकम् १०५ सिद्धान्तं सुधियां हृदि प्रथयितु द्वधावसानायितं शान्तं हारिहरस्वरूपमवतासंसारभीतेर्जगत् ॥६॥ ॥ इति हरिहराष्टकम् ॥ उभयथा सदसद्र पतया, वादे तत्त्वनिर्णयपुरस्सरं निरूपणे, अपवादस्य विशेषविधिरूपस्य बाधकस्य, आस्पदं स्थानम् । सुधियां सत्यकामानां मनीषिणां न तु मत्सरिणाम् । हृदि चित्तादर्श, द्वैधस्य द्वैतरूपस्य यत् अवसानं विरामः, तदाकारतया निर्णीतो यः सिद्धान्तः, सत्यैकरूपो निष्कर्षः तम् । प्रथयितु यथायथं विज्ञपयितुम् । शान्तं शमतरङ्गितं अनास्थाकर दवादोपद्रवैश्व एकान्ततो विरहितम् । हारिहरस्वरूपं मिथो भिन्नतया प्रतिभासमानमपि परमार्थतोऽभिन्नम् । संसारभीतेः जगदेकजन्मनो भयावतरणात् । जगत् विश्वात्मकमिदं प्रतिष्ठानं अवतात् रक्षतात् । शार्दूलविक्रीडितं वृत्तम् । ॥ इति हरिहराष्टकम् ॥ १-एकः खलु परमेश्वर इति सर्वसम्मतः सिद्धान्तः । न च । 'अनस्तमितभारूपस्तेजसां तमसामपि । य एकोऽन्तर्यदन्तश्च तेजांसि च तमांसि च ।। स एव सर्वभावानां स्वभावः परमेश्वरः । भावजातं हि तस्यैव शक्तिरीश्वरतामयी ॥' इत्यादिना पुरस्क्रियते । ततश्च वेवेष्टि इति विष्णुः, शिवयति इति शिवः इति शब्दव्युत्पत्त्या उभयविधोऽपि वाच्यार्थः परस्परं संयुज्यमान एकामेव व्यक्ति निर्दिशति इति हरिहरयोरभेद शास्त्रेष्वभिहितः सङ्गच्छतेतराम् । तत एव अध्यात्मरामायणे 'अयं च विश्वोद्भवसंयमानामेकः स्वमायागुणबिम्बितो य. ॥ विरश्चिविष्ण्वीश्वरनामभेदान् धत्त स्वतन्त्रः परिपूर्ण श्रात्मा ॥' इत्युपश्लोक्यते । एवं कविसृष्टावपि___'हरिशंकरयोः सितासितं भुजगारातिभुजङ्गलाञ्छनम् । वपुरस्तु मुदे विरुद्धयोरपि संसर्गि न भिन्नतां गतम् ।। इत्येवमुपवण्यते । अधिकं दिनुभिरस्मत् पितामहानां हरिहरभेदनिरासो विलोकनीयः । यदन्ते एवमुपसंहृतम् 'मतिकर्दमेषु मग्नानुपासकानृजुपथं समानेतुम् । हरिहरभेदनिरासोऽजनिष्ट शास्त्राणि संधाय ||' इति ।

Loading...

Page Navigation
1 ... 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201