________________
हरिहराष्टकम्
१०५ सिद्धान्तं सुधियां हृदि प्रथयितु द्वधावसानायितं
शान्तं हारिहरस्वरूपमवतासंसारभीतेर्जगत् ॥६॥
॥ इति हरिहराष्टकम् ॥
उभयथा सदसद्र पतया, वादे तत्त्वनिर्णयपुरस्सरं निरूपणे, अपवादस्य विशेषविधिरूपस्य बाधकस्य, आस्पदं स्थानम् । सुधियां सत्यकामानां मनीषिणां न तु मत्सरिणाम् । हृदि चित्तादर्श, द्वैधस्य द्वैतरूपस्य यत् अवसानं विरामः, तदाकारतया निर्णीतो यः सिद्धान्तः, सत्यैकरूपो निष्कर्षः तम् । प्रथयितु यथायथं विज्ञपयितुम् । शान्तं शमतरङ्गितं अनास्थाकर दवादोपद्रवैश्व एकान्ततो विरहितम् । हारिहरस्वरूपं मिथो भिन्नतया प्रतिभासमानमपि परमार्थतोऽभिन्नम् । संसारभीतेः जगदेकजन्मनो भयावतरणात् । जगत् विश्वात्मकमिदं प्रतिष्ठानं अवतात् रक्षतात् । शार्दूलविक्रीडितं वृत्तम् ।
॥ इति हरिहराष्टकम् ॥ १-एकः खलु परमेश्वर इति सर्वसम्मतः सिद्धान्तः । न च ।
'अनस्तमितभारूपस्तेजसां तमसामपि । य एकोऽन्तर्यदन्तश्च तेजांसि च तमांसि च ।। स एव सर्वभावानां स्वभावः परमेश्वरः ।
भावजातं हि तस्यैव शक्तिरीश्वरतामयी ॥' इत्यादिना पुरस्क्रियते । ततश्च वेवेष्टि इति विष्णुः, शिवयति इति शिवः इति शब्दव्युत्पत्त्या उभयविधोऽपि वाच्यार्थः परस्परं संयुज्यमान एकामेव व्यक्ति निर्दिशति इति हरिहरयोरभेद शास्त्रेष्वभिहितः सङ्गच्छतेतराम् । तत एव अध्यात्मरामायणे
'अयं च विश्वोद्भवसंयमानामेकः स्वमायागुणबिम्बितो य. ॥ विरश्चिविष्ण्वीश्वरनामभेदान् धत्त स्वतन्त्रः परिपूर्ण श्रात्मा ॥' इत्युपश्लोक्यते । एवं कविसृष्टावपि___'हरिशंकरयोः सितासितं भुजगारातिभुजङ्गलाञ्छनम् ।
वपुरस्तु मुदे विरुद्धयोरपि संसर्गि न भिन्नतां गतम् ।। इत्येवमुपवण्यते । अधिकं दिनुभिरस्मत् पितामहानां हरिहरभेदनिरासो विलोकनीयः । यदन्ते एवमुपसंहृतम्
'मतिकर्दमेषु मग्नानुपासकानृजुपथं समानेतुम् । हरिहरभेदनिरासोऽजनिष्ट शास्त्राणि संधाय ||' इति ।